SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धन्वन्तरीयनिघण्टुः- [चन्दनादिःरक्तचन्दनम् । ( चन्दनविशेषः ) ॥ १ ॥ रक्तचन्दनमप्यन्यल्लोहितं हरिचन्दनम् । रक्तसारं ताम्रसारं निर्दिष्टं क्षुद्रचन्दनम् ॥ ४॥ गुणाः-*रक्तचन्दनमप्याहू रक्षोघ्नं तिक्तशीतलम् । रक्तोद्रेकहरं हन्ति पित्तको सुदारुणम् ॥ ५॥ राजनिघण्टौ चन्दनादिदशो वर्गःरक्तचन्दनमिदं च लोहितं शोणितं च हरिचन्दनं हिमम् । रक्तसारमथ ताम्रसारकं क्षुद्रचन्दनमथार्कचन्दनम् ॥ १० ॥ गुणाः-रक्तचन्दनमतीव शीतलं तिक्तमीक्षणगदास्रदोषनुत् । भूतपित्तकफकाससज्वरभ्रान्तिजन्तुवमिजित्तृषापहम् ॥ ११ ॥ कुवन्दनम् ( चन्दनविशेषः ) ॥२॥ कुचन्दनं पतङ्गं च रक्तकाष्ठं सुरङ्गकम् । पत्राङ्गं पट्टरागं च पैट्टरञ्जनमेव च ॥६॥ ___ गुणो:- स्वादु पाकरसे शीतं पतङ्गं नातिशीतलम् । कुचन्दनं तु तिक्तं स्यात्सुगन्धि व्रणरोपणम् ॥ ७॥ राजनिघण्टौ चन्दनादिदशो वर्गःपतङ्गं चैव पत्राङ्गं रक्तकाष्ठं सुरङ्गदम् । पत्राढ्यं पत्ररङ्गं च भार्यावृक्षश्च रक्तकः ॥ १२ ॥ लोहितं रङ्गकाष्ठं च रागकाष्ठं कुचन्दनम् । पट्टरञ्जनकं चैव सुरङ्गं च चतुर्दश ॥ १३ ॥ गुणाः-पत्राङ्गं कटुकं रूक्षमम्लं शीतं तु गौल्यकम् । वातपित्तज्वरनं च विस्फोटोन्मादभूतहृत् ॥ १४ ॥ * क. पुस्तकेऽयं श्लोको दृश्यते 'रक्तचन्दनमेवं स्यादृष्योष्णं शीतलं मृदु । चक्षुष्यं रक्तपित्तघ्नं वर्ण्य लोहितचन्दनम् ॥ + ग. पुस्तकेऽयं श्लोकविशेषो दृश्यते-- 'स्वादुः पाके रसे शीतं श्लेष्मलं नातिपित्तलम् । वातसाधारणे प्रोक्तं मुखरोगेषु शस्यते ॥ १ छ. 'प्याहुः स्वादु तिक्तं तु शी । २ ट. मिहत्त। ३ क. ख. घ. ङ. पदर। ४ ख. *णा:--पतङ्गं मधुरं वर्ण्य तिक्तं पित्तकफापहम् । कु। For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy