SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ३ तृतीयो वर्गः] राजनिघण्टुसहितः। अथ चन्दनादिस्तृतीयो वर्गः। (१) चन्दनम् । चन्दनं गन्धसारं च महार्ह श्वेतचन्दनम् । भद्रश्रीस्तु मलयजं गोशीर्ष तिलपर्णकम् ॥ १॥ गुणाः-*श्रीखण्डं शीतलं स्वादु तिक्तं पित्तविनाशनम् । रक्तप्रसादनं वृष्यमन्तर्दाहापहारकम् ॥ २॥ पित्तास्रविषतृड्दाहकृमिघ्नं गुरु रूक्षणम् । सर्व सतिक्तमधुरं चन्दनं शिशिरं परम् ॥ ३॥ राजनिघण्टौ चन्दनादिादशो वर्गःश्रीखण्डं चन्दनं प्रोक्तं महार्ह श्वेतचन्दनम् । गोशीर्ष तिलपर्ण च मङ्गल मलयोद्भवम् ॥ १॥ गन्धराजं सुगन्धं च सर्पावासं च शीतलम् ॥ २ ॥ गन्धाढ्यं गन्धसारं च भद्रश्री गिवल्लभम् । बावनं मलयेजं च शीतगन्धोऽङ्कभूवयम् ॥३॥ गुणाः--श्रीखण्डं कदुतिक्तशीतलगुणं स्वादे कषायं कियत्पित्तभ्रान्तिवमिज्वरक्रिमितृपासंतापशान्तिप्रदम् । वृष्यं वक्त्ररुजापहं प्रतनुते कान्ति तनोर्देहिनां लिप्तं सुप्तमनोजसिन्धुरमदारम्भादिसंरम्भदम् ॥ ४ ॥ श्रेष्ठं कोटरकर्परोपकलितं सुग्रन्थि सद्गौरवं छेदे रक्तमयं तथा च विमलं पीतं च यद्धर्षणे । स्वादस्तिक्तकटुः सुगन्धबहलं शीतं यदल्पं गुणे क्षीणं चार्धगुणान्वितं तु कथितं तच्चन्दनं मध्यमम् ॥ ५॥ अन्यच्च-चन्दनं द्विविधं प्रोक्तं बेसुकडिसंज्ञकम् । वेदं तु साईविच्छेदं स्वयं शुष्कं तु सुकडि ॥६॥ मलयाद्रिसमीपस्थाः पर्वता बेट्टसंज्ञकाः। तज्जातं चन्दनं यत्तु बेट्टवाच्यं कचिन्मते ॥ ७ ॥ गुणाः-बेट्टचन्दनमतीव शीतलं दाहपित्तशमनं ज्वरापहम् । छर्दिमोहतषिकुष्ठतमिरात्कासरक्तशमनं च तिक्तकम् ॥८॥ सुक्कडिचन्दनं तिक्तं कृच्छपित्तास्रदाहनुत् । शैत्यसुगन्धदं चाऽऽर्द्र शुष्कं लेपे तदन्यथा ॥ ९ ॥ * ग्रन्थान्तरे 'चन्दनं सुशिशिरं च विषघ्नं रक्तपित्तशमनं च सुगन्धि । तिक्तकं नयनयोहितमन्यं शीतलं मृदु गुरु व्रणशोधि ' ॥ १ ख. 'द्रप्रियं म । २ ख. ग. घ. र्ष तैल । For Private and Personal Use Only
SR No.020593
Book TitleRajnighantu Ssahito Dhanvantariya Nighantu
Original Sutra AuthorN/A
AuthorHarinarayan Aapte
PublisherAnandashram Mudranalay
Publication Year
Total Pages619
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy