SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir एक तडागे यद्यपि, पिबति भुजङ्गो जलं तथा गौश्च । परिणमति विषं सर्प, तदेव गवि जायते क्षीरम् ॥१३०॥ यो दद्यात्कांचनं मेरु, कृत्स्नां हिंसां परित्यजेत् । एकस्य जीवितं दद्या-न च तुल्यं युधिष्ठिर !॥ १३१ ।। षट्पदः पुष्पमध्यस्थो, यथा सारं समुद्धरेत् । तथा सर्वेषु कार्येषु, सारं गृह्णाति बुद्धिमान् ॥ १३२ ॥ नष्टं नैव मृतं चैव, नानुशोचन्ति पण्डिताः । पण्डितानां जडानां च, विशेषोऽयमतः स्मृतः ॥ १३३ ॥ एकेन शुष्कवृक्षेण, दह्यमानेन वहिना । दाते काननं सर्व, दुष्पुत्रेण कुलं तथा । ॥ १३४ ॥ वाणी रसवती, यस्य भार्या प्रेमवती सती। लक्ष्मी दानवती, यस्य सफलं तस्य जीवितम् ॥ १३५ ।। किं कुलेन विशालेन, विद्याहीनस्य देहिनः । अकुलीनोऽपि विद्यावान् , विबुधरपि पूज्यते ॥ १३६ ॥ For Private And Personal
SR No.020576
Book TitlePrastavik Shloak Sangraha
Original Sutra AuthorN/A
AuthorPriyankarvijay
PublisherDalichand Jain Granthmala
Publication Year1945
Total Pages53
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy