SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir "प्रावर्तन्त मिथो हसन्ति सततं क्रीडोल्लसन्मानसा-स्तावद्व्योमनि देवगीरिति समुद्भूता श्रुता चाखिलैः ॥२॥ | "मुग्धाःस्थ प्रमदाः! यतोऽमरगिरी गीर्वाणनाथैश्चतुः-षष्ट्या योजनमानवक्रकुहरैः कुम्भैः सहस्राधिकैः।" "बाल्येऽपिलपितोय एष भगवान्नाभून्मनागाकुलः, कर्तुतस्य सुयत्नतोऽपि किमहो!! युष्माभिरीशिष्यते?॥३॥" ततो नेमिरपि हरि ताश्च सर्वा जलैराच्छोटयति, कमलपुष्पकन्दुकैश्च ताडयति म । इत्येवं सविस्तरं जलकेलिं विधाय तटमागत्य नेमि हेमसिंहासने निवेश्य सर्वा अपि गोप्यः परिवेष्ट्य स्थिताः। ततो रुक्मिणी जगौ-“निर्वाहकातरतयोद्वहसे न यत्त्वं, कन्यां तदेतदविचारितमेव नेमे !।" “भ्राता तवास्ति विदितः सुतरां समर्थो, द्वात्रिंशदुन्मितसहस्रवधूर्विवोढा ॥१॥" सत्यभामाऽप्युवाच-"ऋषभमुख्यजिनाः करपीडनं, विदधिरे दधिरे च महीशताम् । बुभुजिरे विषयांश्च बहून्सुतान्, सुषुविरे शिवमप्यथ लेभिरे॥२॥ त्वमसि ? किन्तु नवोऽद्य शिवङ्गमी, भृशमरिष्टकुमार! विचारय। कलय देवर! चारुगृहस्थतां, रचय बन्धुमनस्सु च सुस्थताम् ॥३॥अथ जगाद च जाम्बवती जवात्, शृणु पुरा हरिवंशविभूषणम् । स मुनिसुव्रततीर्थपतिर्गृही, शिवमगादिह जातसुतोऽपि हि ॥४॥ पद्मावतीति समुवाच विना वधूटी, शोभा न काचन नरस्य भवत्यवश्यम् । नो केवलस्य पुरुषस्य करोति कोऽपि, विश्वासमेष विट एव भवेदभार्यः॥५॥" गन्धारी जगौ-"सज्जन्ययात्रा-शुभसङ्घसार्थ-पर्वोत्सवा वेश्मविवाहकृत्यम् ।” "उद्यानिकापुङ्कणपर्षदश्च, शोभन्त एतानि विनाङ्गनां नो ॥६॥" For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy