SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् | 48 Acharya Shri Kailassagarsuri Gyanmandir संसृष्टानां धनानुसारेण विषमविभागप्राप्त्यर्थम् । संसर्गः कैरित्य पेचिते बृहस्पतिः, - १६१ “विभक्तो यः पुनः पिचा भ्रात्रा चैकच संस्थितः । पितृव्येणाथवा प्रीत्या तत्संसृष्टः स उच्यते " - इति । यः पूर्वं पिचादिना विभक्तः पुत्रादिः पुनः प्रीत्या तेन सह समापत्रः, स संसृष्ट उच्यते । येन केनापि सहवासमापन इत्यर्थः । afejस्टष्टिना विषमविभागमाह बृहस्पतिः, - : “संसृष्टानान्तु यः कश्चित् विद्याशौर्य्यादिनाऽधिकम् । प्राप्नोति तच दातव्योयंशः शेषाः समशिनः ” - इति । विद्यादिना प्राप्ते अधिके धने अंशदयं दातव्यं न सर्वस्मिन्निति । एतत्संसृष्टद्रव्यानुपरोधेनार्जितेऽपि विभाव्यत्वप्राप्त्यर्थम् (९) । अपुत्रस्य संसृष्टिनः स्क्थग्राहिणं दर्शयति याज्ञवल्क्यः, - “संसृष्टिनस्तु संसृष्टौ सोदरस्य तु मोदरः । दद्याच्चापहरेचांशं जातस्य च मृतस्य च” – इति । श्रयमर्थः । संसृष्टिनो मृतस्यांशं विभागकाले श्रविज्ञातगर्भार्या भार्य्यायां पञ्चादुत्पन्नस्य पुत्रस्य इतरः संसृष्टौ दद्यात् पुत्राभावे संसृष्येवापहरेत् ; न पत्न्यादि । पत्नीनामप्रत्तदुहितृणां च भरणमात्रम् । तदाह नारदः, - (१) साधारणधनोपघातेनायितुर्भागादयस्य सामान्यतएव प्राप्तत्वात् संस्टटविषये विशेषवचनारम्भस्यार्थवत्त्वार्थं तत्रानुपघातार्जितेऽमि संस्टटधने अर्जकस्य दावंशौ इतरेषामेकैकेाऽ शइति कथ्यते इति भावः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy