SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकालम् । Acharya Shri Kailassagarsuri Gyanmandir श्रवणात् । कात्यायनवचनं तु पत्न्यां व्यभिचारिष्यां पित्रादेरपत्य धनग्राहित्वप्रतिपादनपरम् । ३५० " भर्त्तुर्धनहरी पत्नी या स्यादव्यभिचारिणौ । अपचार क्रियायुक्ता निर्लज्जा वाऽर्थनाशिका | व्यभिचाररता या च स्त्रीधनं सा न चाईति" - इति तेनैवोक्तत्वात् । धनं जौवनायोपक्लृप्तं क्षेत्रांशं नाईतीत्यर्थः । धारेश्वरस्तु, अनपत्यधनं पत्नी हातीत्येवमादिवचनसञ्जातस्य प्रकारान्तरेण विषयव्यवस्थामाह । नियोगार्थिनी पत्नी श्रनपत्यस्य विभक्तस्य यद्धनं ग्टहाति* । तथाच मनुः, “धनं यो विभृयाङ्मातुः स्मृतस्य स्त्रियमेव वा । वोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥ कनौयान् ज्येष्ठभार्य्यायां पुत्रमुत्पादयेद्यदि । समस्तत्र विभागः स्यादिति धर्मे व्यवस्थितः " - इति । विभक्तधने भ्रातरि मृते श्रपत्यद्वारेणैव पत्न्याधनसम्बन्धः, नान्यथा । श्रविक्तधनेऽपि तथैवेत्यभिप्रायः । गौतमोऽपि । “पिण्डगोत्रर्षिसम्बन्धा स्क्थं भजेरन् स्त्रौ वा अनपत्यस्य बीजं वा लित" - इति । संग्रहकारोऽपि - 1 "भ्राढषु प्रविभक्रेषु सृष्टेष्वप्यसत्सु वा । गुर्वादेशनियोगस्था पत्नी धनमवाप्नुयात् ” - इति । तदनुपपत्रं, पत्नी दुहितर इत्यत्र नियोगाश्रवणात् । श्रश्रुतोऽपि * इत्थमेव पाठः सर्व्वत्र । तदुष्टहाति इति तु भवितुमुचितम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy