SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३५८ www. kobatirth.org तथा, पराशर माधवः । नियोगो गौतमादिवचनबलात्कल्प्यते इति युक्तमिति चेत् । न । गौतमादिवचनानामर्थान्तरपरत्वात् । तथा हि । तत्र यगौतमवचनं, “सपिण्डसम्बन्धा ऋषिसम्बन्धा पटक्थं भजेरन् । स्त्रौ वा श्रनपत्यस्य बीजं लिप्सेत " - इति । तस्य नायमर्थः, यदि बीजं लिप्त तदा पत्नी श्रनपत्यधनं गृह्णातीति । श्रपि तर्ह्यनपत्यस्य धनं पिण्डगोत्रर्षि - सम्बन्धागृहीयुः । जाया न । सा स्त्री बीजं वा लिप्त संयता वा भवेदिति । वाशब्दस्य पक्षान्तरवचनत्वेन यद्यर्थे प्रयोगाभावात् । यदपि धनं यो विभृयादित्यादि मनुवचनं, तदपि चेत्रजस्यैव धनसम्बन्ध वत्ति न पत्न्या इति । शङ्खवचनमपि संयताया एव धनसम्बन्धं वति, न तु देवरादिनियुक्तायाः । अन्यथा, “श्रपुचा शयनं भर्त्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च” - इति । Acharya Shri Kailassagarsuri Gyanmandir “श्रपुत्रा शयनं भर्त्तुः पालयन्ती व्रते स्थिता । भुञ्जौतामरणात् चान्ता दायादा उर्ध्वमायुः " - इति मनुकात्यायनवचनविरोधप्रसङ्गात् । तस्मादनपत्यस्य विभक्तस्यासंसृष्टिनो मृतस्य धनं पत्नी ग्टहाति इत्येव व्यवस्था ज्यायसी । यत्तु स्त्रीणां धनसम्बन्धाभावप्रतिपादकवचनम्, - “यज्ञार्थं द्रव्यमुत्पन्नं तत्रानधिकृतास्तु ये । तदृक्थभाजस्ते* सर्वे ग्रामाच्छादनभाजनाः ॥ * इत्यमेव पाठः सर्व्वत्र । मम तु, वऋक्थ भाजस्ते, - इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy