SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । ३१३ खार्जितद्रव्यविषयः । क्रमागते तु सर्वेषामपि समांश: स्यात्। पितुरिच्छया विषमविभागस्थायुतत्वात् । नारदोऽपि कालान्तरमाह, "श्रत ऊर्ध्वं पितुः पुत्रा विभजेयुर्धनं समम् । मानिवृत्ते रजसि प्रत्तासु भगिनीषु च ॥ निवृत्ते वाऽपि रमणे पितर्युपरतस्पहे"-दूति। शङ्खोऽपि । “कामे पितरि अक्थविभागो वृद्धे विपरीते चेतसि दौर्घरोगिणि च" इति। अस्यार्थः । अकामे विभागमनिच्छति पितरि अतिहदे विपरीतेऽप्रकृतिस्थे दीर्घरोगिणि अचिकिल्यरोगग्रस्ते च पुत्राणा मच्छयैव विभागो भवतीत्यर्थः । दीर्घरोगग्रहणमतिकुपितादेपलक्षणम् । अतएव नारदः, "व्याधितः कुपितश्चैव विषयासक्रमानमः । अयथाशास्त्रकारी च न विभागे पिता प्रभुः” इति । पित्रा समविभागकरणे विशेषमाह याज्ञवल्क्यः, “यदि कुर्यात्समानंशान् पत्न्यः कार्या: समांभिकाः । न दत्तं स्त्रीधनं यात्रा भर्ना वा श्वश्रेण वा"-इति । यदि खेच्छया पिता पुत्रान् समभागिनः करोति, तदा अदसस्त्रीधनाः पत्न्योऽपि पुसमांशभाजः कार्याः । दत्ते तु स्त्रीधने, “दत्ते बद्धं प्रकल्पयेत्” इति पुत्रांशादीशभाजो भवन्ति। पितरूधं धर्मविद्यर्थं विभागः कर्त्तव्य इत्याह प्रजापतिः, "एवं मह वसेयुर्वा पृथवा धर्मकाम्यया । पृथग्विवर्धते धर्मस्तस्माद्धा पृथकिया"-इति । हस्पतिरपि, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy