SearchBrowseAboutContactDonate
Page Preview
Page 888
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३२ पराशरमाधवः। स्वले भर्ना प्रौतेम यहत्तमित्यादि विष्णुवचनं नोपपद्यते, इति । तदप्ययुतम्। साधारयेऽपि द्रव्यस्य वचनादेव प्रीतिदाने पितरधिकारोपपत्तेः । स्थावरादौ तु स्वार्जितेऽपि पुत्रादिपारतग्व्यमेव । "स्थावरं द्विपदश्चैव यद्यपि स्वयमर्जितम् । असम्भूय सुतान् सर्वान्न दानं न च विक्रयः ॥ ये जाता येऽप्यजाताच ये च गर्ने व्यवस्थिताः । वृत्तिञ्च तेऽभिकान्ति न दानं न च विक्रयः"इत्यादिवचनात् । प्रापदादौ तु स्वातव्यमस्येव । "एकोऽपि स्थावरे कुर्याद्दानाधमनविक्रयम् । भापत्काले कुटुम्बार्थ धर्मार्थेषु विशेषतः” इति स्मणरात्। तस्मात्, सुष्टकं जन्मनैव स्वत्वमिति । प्रकृतमनुसरामः । अपरमपि विभागकालमाह याज्ञवल्क्यः, “विभागधेत्पिता कुर्यादिच्छया विभजेत्सुतान् । ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः" इति । यदा पिता विभागं कर्तुमिच्छति, तदा पुत्रानात्मनः मकामादिच्छया विभजेत्। इच्छया विभागप्रकारः, ज्येष्ठं वा श्रेष्ठभागेनेति। श्रेष्ठभागः सोद्धारविभागः। उद्धवारप्रकारः स्मृत्यन्तरे दर्शितः, "ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यदरम् । ततोऽध मध्यमस्य स्यात्तुरीयं तु यवौयमः” इति । अथवा । सर्वे ज्येष्ठादयः पुत्राः ममांशभाजः(१। प्रयञ्च(२) विषमोभाग: (१) इदञ्च सर्व वा स्यः समापिन इत्यस्य व्याख्यानम् । (२) अयश्चेति सेाद्वारविभागरूपइत्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy