SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ पराशरमाधवः। “वनस्पतीनां सर्वेषामुपभोगो यथा यथा। तथा तथा दमः कार्यो हिंसायामिति धारणा"-इति । फलपुष्योपभोगतारतम्यानुरोधेनोत्तममध्यमादयो दण्डाः कल्पनौयाः। तथाच दण्ड्य इत्यनुवृत्तौ विष्णुः । “फलोपयोगद्रुमछेदी उत्तममाहसम् । पुष्योपयोगगुमच्छेदी मध्यममाहमम् । बल्लौगुल्मलताच्छेदी कार्षापणशतम्। हच्छेद्येकम् । सर्वं च तत्खामिनां तदुत्पत्तिम्” इति । फलपुष्योपभोगद्रुमच्छेदकादयः छिन्नद्रुमखामिनां तदुत्पत्तिं पुनः प्रतिरोपितद्रुमफलादिभोगकालपर्यन्तं दाय्या इति शेषः । अत्र विशेषमाह याज्ञवल्क्यः, "प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे । उपजीव्यद्रुमाणाञ्च विंशतेदिगुणोदमः ॥ चैत्यम्मशानसीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां दिगुणो दण्डो वृक्षेऽथ विश्रुते ॥ गुल्मगुच्छचपलताप्रतानौषधिवौरुधाम् ।। पूर्वस्मतादर्धदण्डः स्थानेषकेषु कर्त्तने” इति । प्ररोहिशाखिनां वटादीनां शाखाच्छेदने स्कन्धच्छेदने च यथाक्रमं विंशतिपणद्दण्डादारभ्य पूर्वस्मात्पूर्वस्मादुत्तर उत्तरोदण्डोद्विगुणः। विंशतिपणचत्वारिंशत्पणाशौतिपणा इत्येवं रूपः । अपरोहिशाखिनामाम्रादीनामुपजीव्यद्रुमाणां पूर्वोकेषु स्थानेषु चैत्यादिस्यानेषूत्पन्नानां वृक्षाणां शाखादिच्छेदने, अश्वत्थपलाशादीनां शाखादिच्छेदनेऽपि पूर्वोक्ताद्दण्डाद्द्विगुणः दण्डः । गुल्मा मालत्यादयः । गुच्छाः कुरुण्टकादयः। दुपाः करवौरादयः । लता For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy