SearchBrowseAboutContactDonate
Page Preview
Page 849
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । द्राचाऽविमुक्तादयः । प्रतानाः काण्डप्ररोहर हिताः । श्रोषध्यः फलपाकान्ताः शास्लिप्रस्टतयः । वीरुधोगुडुचीप्रभृतयः । एतेषु स्थानेषु विकर्त्तने पूर्वोक्ताद्दण्डादर्धदण्डो वेदितव्यः । कुण्ड्यादिधाते* ग्टहे कष्टकादिप्रक्षेपणे च दण्डमाह याज्ञवल्क्य: * “श्रभिघाते तथा भेदे केदे कुएड्यावपातने । पणान् दाप्यः पञ्चदश विंशतिं तहूयं तथा ॥ दुःखोत्पादि गृहे द्रव्यं चिपन् प्राणहरन्तथा । षोड़शाद्यः पणं दाप्यो द्वितीयो मध्यसाहसम्” – इति । मुद्गरादिना कुद्यस्याभिघाते, विदारणे, द्वैधीकरणे, यथाक्रमं पञ्चपण दशपणो विंशतिपणश्च दण्डः । श्रवपातने पुनस्त्रयो दण्डाः समुच्चिताः, कुसम्पादनार्थं धनमपि देयम् । परग्टहे कष्टकादिप्रक्षेपणे षोड़शपणो दण्डः । विषभुजङ्गादिप्रक्षेपणे मध्यमसाहमोदण्ड इत्यर्थः । इति दण्डपारुय्यम् । अथ वाक्पारुष्यम् । तस्य लक्षणं नारदेनोक्तम्, - Acharya Shri Kailassagarsuri Gyanmandir २६३ “देशजातिकुलादीनामाक्रोशन्यङ्कसंयुतम् । यद्वचः प्रतिकूलार्थं वाक्पारुष्यं तदुच्यते” – इति । कलहप्रिया गौड़ा इति देशाक्रोशः । श्रतिलोलुपा ब्रह्मण इति कुष्याभिघाते, — इति का० । --- For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy