SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम्। २१५ शक्रोति, क्रयप्रकाशनच्च करोति, म नराधमः। तस्माच नाष्टिकोधनं लभते इति। तदुकं मनुना, "श्रथ मूलमनाहार्य प्रकाशक्रयशोधितम् । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम्" इति । क्रेतुः सकाशाद्धनग्रहणमर्द्धमूल्यं दत्वैव। तथाच कात्यायनः, “वणिग्वौथोपरिगतं विज्ञातं राजपूरुषैः । अविज्ञाताश्रयात् क्रौतं विक्रेता यत्र वा मृतः ॥ खामौ दत्वाऽर्द्धमूल्यन्तु प्रग्टलीयावकं धनम्” इति । अविज्ञाताश्रयादविज्ञातस्थानकादित्यर्थः । क्रयप्रकाशनपक्षयोः* मति सम्भवे मूलानयनपक्षएव ग्राह्यः । तदुक्तं कात्यायनेन, “यदा मूलमुपन्यस्य पुनर्बादी क्रयं वदेत् । श्राहरेत् मूलमेवामौ न क्रयेण प्रयोजनम् ॥ अममाहार्यमूलस्तु क्रयमेव विशोधयेत्” इति । यदा मूलदर्शनं क्रयप्रकाशनं वा न करोति, तदा दण्ड्य इत्याह मएव, "अनुपस्थापयन्मूलं क्रयं वाऽप्यविशोधयन् । यथाऽभियोगं धनिने धनं दाप्योदमञ्च मः" इति ॥ नाष्टिकविप्रयोगमाह सएव, "यदि खं नैव कुरुते ज्ञातिभिर्नाष्टिको धनम् । प्रसङ्गविनिवृत्यर्थं चोरवद्दण्डमर्हति" इति। इत्यमेव पाठः सर्वत्र । मम तु, मूलानयनकयप्रकाश नपक्षयोः, इति पाठः प्रतिभाति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy