SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० पराशरमाधवः। त्याह कात्यायन: "अदत्तत्यकविक्रीतं कृत्वा खं लभते धनम्" इति। अथैतद्दत्तन्यक्तं विक्रौतञ्च न भवतीति प्रमाणैः प्रमाध्य स्वकीयं धनं नाष्टिकः विक्रेत्रादेः सकाशालभते इत्यर्थः। पत्रविषये विशेषमाह रहस्पतिः, "पूर्वस्वामी तु तट्रव्यं यदाऽऽगत्य विभावयेत् । तत्र मूलं दर्शनीयं क्रेतः शुद्धिस्ततो भवेत्” इति । मूलं विक्रेता । विक्रेतुर्दर्शनानन्तरं व्यासः, "मूले समाहते क्रेता नाभियोज्यः कथञ्चन । मूलेन सह वादस्तु नाष्टिकस्य तदा भवेत्”-दति । यदा तु मूलभूतो दर्शितोविक्रेता न किञ्चिदुत्तरं ददाति, तदात्वाह इहस्पतिः, "विक्रेता दर्शितो यत्र विहीनो व्यवहारतः । क्रेटराज्ञोर्मूल्यदण्डौ प्रदद्यात् स्वामिनोधनम्” इति । यदा तु मूलभूतोविक्रेता देशान्तरङ्गतः, तदा कात्यायन आह, "मूलानयनकालश्च देयो योजनमङ्मया । प्रकाशं प्रक्रयं कुर्यात् माचिभिर्जातिभिः खकैः ।। न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी। प्रसाधिते क्रये राज्ञा वक्रव्यः स न किञ्चन" इति । अयमर्थः । यस्तु क्रेता कालविलम्बेनापि मूलं दगातुं न * यत्र विषये,-इति का•। मम तु, अत्र विषये,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy