________________
Shri Mahavir Jain Aradhana Kendra
१६६
www. kobatirth.org
तत्र बृहस्पतिः, -
पराशरमाधवः ।
अष्टादशपदेोपयेोगिनी व्यवहारमातृका निरूपिता । अथेदानीमष्टादशपदान्यनुक्रमेण निरूप्यन्ते ।
Acharya Shri Kailassagarsuri Gyanmandir
“पदानां सहितस्त्वेष व्यवहारः प्रकीर्त्तितः 1
विवादकारणन्यस्य पदानि श्टणुताधुना ॥ ऋणादानप्रदानानि द्यूताहानादिकानि च ।
क्रमशः सम्प्रवक्ष्यामि क्रियाभेदांश्च तत्त्वतः " -इति । तत्र प्रथमोद्दिष्टत्वेन ऋणादानाख्यस्य पदस्य विधिरुच्यते । तत्र ऋणादानं सप्तविधम् । तदाह नारदः, -
“ऋणं देयमदेयञ्च येन यत्र यथा च यत् । दानग्रहणधर्माश्च ऋणादानमिति स्मृतम्” – इति । तत्राधमर्णं पञ्चविधमौदृशम्टणं देयमौदृशमदेयमनेनाधिकारिणा देयमस्मिन्समये देयमनेन प्रकारेण देयमिति । उत्तमर्ण द्विविधं, दानविधिरादानविधिश्चेति । तत्र दानविधिपूर्वकत्वादितरेषां तत्रादौ दानविधिरुच्यते । तत्र बृहस्पतिः,
“परिपूर्णं ग्टहीत्वाऽलं वृद्धेर्वा साधु लग्नकम् ।
लेख्यारूढं साचिमदा ऋणं दधाद्धनौ सदा” - इति ।
वृद्धेः परिपूर्णत्वं सवृद्धिकमूलद्रव्यपर्य्याप्तता । वृद्धिप्रभेदाश्च
बृहस्पतिना निरूपिताः, -
"वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधाऽन्यैः प्रकीर्त्तिता ।
इत्थमेव पाठः सर्व्वत्र । मम तु ऋणादानप्रधानानि, - इति पाठः प्रतिभाति ।
For Private And Personal Use Only