SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६४ परापूरमाधवः। [१२ १०। अन्यानि वा पवित्राणि सामान्याहुर्मनीषिणः” इति । अथ रेतःस्खलने प्रायश्चित्तमाह,गृहस्थः कम तः कुर्याद्रेतसः स्खलनं भुवि ॥६॥ सहस्रन्त जपेद्देव्याः प्राणायामैः विभिः सह । इति। अकामते याज्ञवल्क्य आह, “यन्मेऽद्य रेत इत्याभ्यां स्कनं रेतोऽभिमन्त्रयेत् । स्तनान्तरं भुवोर्मध्यं तेनानामिकया स्पगेत्” इति ॥ यन्मेऽद्य रेत इत्येकस्या ऋचः प्रतीकमिदम्। पुनामैत्विन्द्रियमित्युपरितनो मन्त्रः । तेनाभ्यां मन्त्राभ्यामनामिकया रेत श्रादाय स्तनयोः ध्रुवोर्मध्यमुपस्पृशेत् । यतीनां वनवासिनां च प्रयत्नोत्मर्ग कखोतं द्रष्टव्यम्, “यत्नोत्सर्ग ग्टही कृत्वा वारुणणेभिरुपस्पृशेत् । वानप्रस्थो यतिश्चैव चरेच्चान्द्रायणत्रयम् *" इति ॥ खने तु काश्यप ाह, "सूर्य्यस्य त्रिनमस्कारं स्वप्ने सिक्का ग्टही चरेत् । वानप्रस्थो यतिश्चैव त्रिः कुर्य्यादधमर्षणम्" इति ॥ ब्रह्मचारिणं प्रति मनुराह, "स्वप्ने मिक्वा ब्रह्मचारी विजः शुक्रमकामतः । स्नात्वाऽर्कमर्चयित्वा तु पुनर्मामित्यूचं जपेत्”-इति ॥ भयादौ प्रजापतिराह, * चरेश्चान्द्रायणव्रतम्, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy