SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १२ ० ।] प्रायवित्तकाण्डम् | प्रत्याम्नायेन प्राजापत्यत्रयं * कुर्य्यात् । मञ्चादौ मरणमन्तरिचम्टतिः । रजखला सूतिकामरणमा शौचमरणम् । तस्मिन् द्विविधे मरणे कृच्छ्रत्रयं कुर्य्यात् । प्राजापत्यकृच्छ्रस्य चतुरः प्रत्याम्नायानाह, - लच्छंं देव्ययुतं चैव प्राणायामशतद्वयम् । पुण्यतीर्थेऽनाई शिरः स्नानं द्वादशसंख्यया ॥ ६२ ॥ द्वियोजने तौर्थयाचा लछमेकं प्रकल्पितम् । इति । Acharya Shri Kailassagarsuri Gyanmandir ● प्राजापत्यदयं, इति मु० । + वेदस्याध्यायमेवच - इति शा० । 50 देवौ गायत्री, तस्था प्रयुतसंख्याकोजपो देव्ययुतम् । सएकः प्रत्याम्नायः । प्रणायामानां शतदयं द्वितीयः प्रत्यान्नायः । श्रनार्द्र शिरोयस्यासावनार्द्रशिराः, तस्य स्वानमनार्द्रशिरः खानम् । सकृत्क्षात्वा तदङ्गानुष्ठानञ्च विधाय केशान् शोषयित्वा ततो द्वितीयं स्वानमाचरेत् । एवंविधं स्नानद्वादशकं पुण्यतीर्थे कृतं तृतीयः प्रत्याम्नायः । पुण्यतीर्थमुद्दिश्य योजनदयगमनं चतुर्थः । तथोदकवासादयोऽपि प्रत्याम्नाया श्रवगन्तव्याः । तदुक्तं चतुर्विंशतिमते“कृच्छ्रोऽयुतं च गायत्र्या उदवासस्तथैवच । धेनुप्रदानं विप्राय सममेतच्चतुष्टयम् ॥ तिलहोमसहस्त्रन्तु वेदाध्ययनमेवच । विप्रा दादश वा भोज्याः पावकेष्टिस्तथैवच ॥ For Private And Personal Use Only ३६३
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy