SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ४० 1] प्रायवित्तकाण्डम् | मग्निहेोचाद्यनधिकाररूपाशुचित्वद्योतकम् । श्रयमेवार्थ:, 'अकुर्व्वन् प्रत्यवैति' - इत्यनेनाभिधीयते । न त्वनुष्ठानाभावाद्भावरूपस्य दुरितस्योत्पत्तिरभिधीयते । स चानधिकारः प्रायश्चित्तेन निवर्त्तनीयः, - इति । अपरे पुनराहुः । 'अकुर्व्वन्' - इति लक्षणार्थे शतप्रत्ययः । यदेतद्विहिताकरणं तदेतत् प्राग्भवौयनिषिद्धाचरणजन्यदुरितापूर्व्वमद्भावस्य लिङ्गं (९), तदेव दुरितं प्रायश्चित्तेन निवर्त्तते इति । श्रन्ये त्वेवं समादधते । श्रभावाद्भावोनोत्पद्यते इति नाथमेकान्तः, तार्किक प्रागभावस्य कारणत्वात् । मीमांसकमते, भाट्टैस्तावदभावाद्भावोत्पत्तिरभ्युपगता, योग्यानुपलब्धिलक्षणदभावात् प्रमाशाइटाद्यभावविषयप्रमितेर्भावरूपायाजननात् । प्राभाकरैश्वाभाव " Acharya Shri Kailassagarsuri Gyanmandir एव नाभ्युपगम्यते, “भावान्तरमभावेोहि कयाचित्तु व्यपेक्षया - इत्युदौरणात् । तथा च सति विहिताकरणमपि भावान्तरमेवेति वा तस्मात् प्रत्यवाय उत्पद्यतां का तव हानि: । अथोच्येत, प्रत्यवायोनाम दुरितापूर्व्वं तच्च कृतिसाध्यत्वे मति कृत्युद्देश्यं, तथा च विहिताकरणस्य कृतिरूपत्वाभावादपूर्व्वजनकत्वं नास्तीति । नायं दोषः । तस्य लक्षणस्य विहितप्रतिषिद्धकर्मजन्यापूर्व्वविषयत्वेन सङ्को 2 1 (१) तथाच "लक्षण हेत्वोः क्रियायाः " - इति व्याकरणस्मृत्या लक्षणार्थे - ऽपि शतुरनुशासनादच शतुर्लक्षणार्थत्वमेव न हेत्वर्थत्वमिति भावः । यत्रैतदुक्तम् । “नित्यानामक्रिया यस्मालक्षयत्यतिसत्वरा । प्रत्यवायक्रियां तस्मालक्षणार्थे शता भवेत्”, इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy