SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [४व। विशेषणम्। तस्मात् नैमित्तिकं प्रायश्चित्तम्। तथा र वृहस्पतिः प्रायश्चित्तप्रकरणस्योपक्रमोपसंहारयोः नैमित्तिकत्वं दर्शयति, "नैमित्तिकं धर्मजातं गदतोमे निवोधत । विहितस्थाननुष्ठानात् निन्दितस्य* निषेवनात् ॥ प्रायश्चित्तं यत् क्रियते तत् नैमित्तिकमुच्यते”इत्युपक्रमः, "नैमित्तिकं समाख्यातं प्रायश्चित्तं समासतः"इत्युपसंहारश्च। तच्च निमित्तं दुरितापूर्व, तदुत्पत्तिकारणं याज्ञवल्क्येन दर्शितम्, “विहितस्थाननुष्ठानानिन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनम्मृच्छति”-इति । मनुनाऽपि, "अकुर्खन् विहितं कर्म निन्दितञ्च समाचरन् । प्रसजश्चेन्द्रियार्थेषु प्रायश्चित्तौयते नरः” इति । ननु, निन्दितसेवनाद्भावरूपादुरितोत्पत्तावपि विहिताकरणदभावात् कथं दुरितोत्पत्तिः, न ह्यभावाभावउत्पद्यमानः क्वचिदृष्टः(१) । अत्र केचिदाहः। सन्ध्यावन्दनादिविहिताननुष्ठान * प्रतिषिद्ध,-इति स० शा० सो पुस्तकेषु पाटः । (१) “कुतस्तु खलु सोम्यैवं स्यादिति होवाच कथमसतः सज्जायेत"--- इति श्रुत्या ( छा० उ० ६ प्र. ) अभावाद्भावोत्पत्तिनिराकृता,इत्यपि स्मर्त्तव्यम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy