SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१०,या का० । पराशरमाधवः। ७. ७ कोद्रवाः कोरदूषकाः। पुलकाः पुलाकाः छान्दमोऽत्र इखः । संस्कारकद्रव्येषु हिङ्गद्रव्यमश्राद्धेयम् । कालः कृष्णर्जुकः। अनलचित्रकः । शुभा शुभाख्यः शाकविशेषः। एतानि शाकान्यश्राद्धथानि । ननु, _ "मधूदं रामठञ्चैव कर्पूरं मरिचं गुड़म्" इति श्रादिपुराणे हिङ्गुद्रव्यस्य श्राद्धेयत्वमुक्त, तत्कथं तस्याश्राद्धेयत्वमुच्यते, इति। सत्यं, "अतिरात्रे षोडशिनं ग्रहाति नातिराचे घोडशिनं ग्टहाति" इति वस्त्रापि विधिप्रतिषेधदर्शनादिकल्पोऽस्तु । एवमेवान्यत्रापि। भारदाजोऽपि । “मुगाढकीमाषवर्ज विदलानि दद्यात्"-दति । मुगः कृष्णेतरः, आढकी तुवरी, माषो राजमाष:, एतैर्चिना विदलानि दद्यादित्यर्थः। माषग्रहणं कुलत्यादीनामुपलक्षणार्थम् । अतएव चतुर्विंशतिमतम्, "कोद्रवानाजमाणंश्च कुलत्थान्वरकांस्तथा । निष्पास्तु विशेषेण पञ्चैतांस्तु विर्जयेत् ॥ यावसालानपि तथा वर्जयन्ति विपश्चित:"-इति । वरका: वनमुगाः । अन्यत्प्रसिद्धम् । अत्र निष्यावनिषेधः कृष्ण . निष्यावविषयः, "कृष्णधान्यानि सर्वाणि वर्जयेत् श्राद्धकर्मणि"-दति स्मरणात् । “निष्यावाश्चात्र शोभनाः" इति मार्कण्डेयपुगणं कृष्णोतरनिष्पावविषयाया व्यवस्थापितं भवति ! मरीचिरणि, "कुलत्थाचणका: श्राद्धे न देयाश्चैव कोद्रवाः । कटुकानि न साणि विरसानि तथैवच" इति For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy