SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १२०,या का०] पराशरमाधवः । कृते तत्क्षणिकः* शापस्त्रेतायां दशभिर्दिनैः। दापरे चैक-मासेना कलौ संवत्सरेण तु ॥ २७॥ इति ॥ धर्मस्य तारतम्यापादकानि निमित्तानि विभजते,अभिगम्य कृते दानं चेतास्वाहय दीयते । दापरे याचमानाय सेवया दीयते कलौ ॥ २८॥ इति । यत्र प्रतिग्रहीता वर्त्तते, तत्र दाता स्वयं गत्वा गुरुमिव तमभिगम्य(१) कृते दानं करोति। चेतायां प्रतिग्रहीतारमाह्य तस्मै दीयते । 'नेतासु'-इति वहु-वचनं कृत-दापरादिषु जातावेकवचनमिति प्रदर्शनार्थम् (२) । द्वापरे स्वयमागत्य याचमानाय प्रतिग्रही। दीयते । कलौ न यात्रा-मात्रेण, किन्तु सेवया । वृहस्पतिरपि अमुं विभागमाह, * तात्कालिकः,-इति सेा० स० पुस्तकयोः पाठः । कृते तु तत्क्षणा छापः,--इति मु० म० पुस्तके पाठः।। + दापरे मासमात्रेण,-इति मु. म. पुस्तके पाठः। 1 संवत्सरेण तत्, इति सो० म० पुस्तके पाठः । 6 याचमानस्य,-इति से० म० पुस्तके पाठः। (१) अभिगम्य विनयादिभिराराध्य । (२) कृतादीनां प्रत्येक बहूनामपि भेदस्याविवक्षितत्वादेकवचनम्। पवि वक्षितभेदा व्यक्तिरेव हि जातिरित्याख्यायते। यत्रेदमुक्तम् । “अर्थकियाकारितया भिन्नाएव हि व्यक्तयः । ताएव व्यक्तयस्त्यक्तभेदाजातिरुदाहृता" इति। प्रकृत्यर्थतावच्छेदकवत्वसंबन्धेनैकत्वस्यादयः,इत्यपि वदन्ति । 15 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy