________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
२४६
न्यायसूत्ररत्तौ।
प्रत्यक्षं प्रति समवायित्वं वाच्यं न तु प्रत्यक्षत्वावच्छिन्न प्रति अनुमित्यादि जनकत्वे तु विनिगमकाभावः तेन जन्यज्ञानत्वावच्छिवजनकतावच्छेदकमात्मत्वं चक्षुरादेरनित्यत्वादात्मनश्च नित्यतायावच्यमाणत्वाञ्चक्षुरादिनाशेऽपि स्मरणाञ्चनरहमित्याद्य प्रतीतेश्च नेन्द्रियात्मवादो युज्यत इति ॥३॥
समाप्तमिन्द्रियभेदप्रकरणम् ॥ १४ ॥ ननु गौरोऽहं जानामीत्यादि प्रतीते रस्तु शरीरमात्मेत्याशङ्ख्य दूषयति । पातकाभावात् पातकादेरभावप्रसङ्गात् तथा चोत्तरकालिकं दुखादिकं न स्यादिति यहा दाहोनाशः तथा च शरीरनाथे कते कर्तरि शरीरे विनष्टे पातकं न स्यादित्यर्थः । यद्यपि भूतचैतन्य वादिना पातका दकं नोप्रेयते तथापि तस्य प्रसाध्याङ्गकत्वादेकदेशिनः पूर्व पश्चित्वाहा न दोष इति भावः ॥ ४॥
तवापि तुल्य दोष इत्याशङ्कते । तदभावः पातकाभावः सात्म कशरीरस्य प्रदाहेऽपि प्रसक्तः तन्नित्यत्वात् तस्य प्रात्मनो नित्यत्व त् नित्यत्वे न निर्विकारत्वं तेन जन्यमानाश्रयत्वमभिमतमिति केचित् तन्नित्यत्वात् शरीरनाशे शरीरविशिष्टात्मनाशस्य नियतत्वादिल्यपि कश्चित् किञ्च सात्मकशरीरन शेऽपि हन्तुः पातकाभावः स्यात् तस्यात्मनो नित्यत्वेन तनाशकत्वाभावात् ॥ ५ ॥ ___ परिहरति । कार्याश्रयस्य चेष्टाश्रयस्य कर्तः कृत्यवच्छेदकस्य शरीर-.. स्यैव नाशो न त्वात्मन दूति न पातकाभावः यद्दा न हन्तुः पातकाभावः कार्याश्रयकर्तर्वाधात् शरीरस्य नाशात् ब्राह्मणत्वादेः शरीरत्तित्वात्तबाशा देव पापोत्पत्तिरिति भावः वस्तुतस्तु पूर्वशरीरावछिन्न प्राणविमाशिनो बन्धनमुखनिरोधादेहि सात्वं न स्यात् पातकानभ्यु पगन्तचार्वाकादिमते शरीरभेदसाधनन्त वक्ष्यमाणयुक्तिभिरिति ध्येयम् ॥ ६ ॥
समाप्तं देहभेदप्रकरणम् ॥ २५ ॥ प्रसङ्गाञ्चक्षुरतप्रकरणमारभते । वामेन चक्षुषा दृष्टस्य दक्षिणेन चक्षुषा प्रत्यभिज्ञानात् स्थिरात्ममि विरिति केषाच्चिन्म तं तनिराकरणायै तदुपन्यासः ॥ ७॥ .
For Private And Personal