________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.orgAcharya Shri Kailashsagarsuri Gyanmandir
न्यायदर्शनवाक्य यनभाष्ये
येन प्रतीयमानो व्यवहाराय कल्प्येत न चाप्रतीयमानेन व्यवहारः । तस्यान्तेयस्यार्थस्य संज्ञाशब्देनेतिकरणयुक्तेन निर्द्दिश्यते रूपमिति ज्ञानं रस प्रतिज्ञानमिति तदेवमर्थ ज्ञानकाले स न समाख्याशब्दो व्याप्रियते व्यवहारकाले तु व्याप्रियते, तस्मादशाब्दमर्थ ज्ञानमिन्द्रियार्थसन्निकर्षो त्पनमिति । पीठे मरीचयो भौमेनोमय्या संसृष्टाः सन्दमाना दूरस्थस्य चक्षुषा मन्त्रिमण्यन्त तले न्द्रियार्थसन्निकर्षादिकमिति ज्ञानमुत्पद्यते तच्च प्रत्यवम् प्रसख्यत इत्यत श्राह व्यभिचारोति यदतस्मिंस्तदिति तद्यभि वारि, यत्त ु तस्मिंस्तदिति तदव्यभिचारि प्रत्यचमिति । दूराञ्चचुषा ह्ययमर्थं पश्वनावधारयति धूम इति वा, रेणुरिति वा वदेत् तदिन्द्रि यार्थसन्निकर्षेात्पन्नमनवधारणज्ञानम् प्रत्यक्ष ममरुज्यत इत्यत ग्राह व्यवसायात्मकमिति, तचैतन्मन्तव्यम् श्रात्ममनः सन्निकर्षजमेवानवधारणज्ञानमिति । चक्षुषा ह्ययमर्थं पश्यन्नावधारयति तथाचेन्द्रियेणोपलब्धम मनसोपलभते एवमिन्द्रियेणानवधारयन् मनसा नावधारयति यचतदिन्द्रियानवधारणपूर्वकं मनसाऽनवधारणं तद्विशेषापेच्तं विमर्शमात्र संशयोनपूर्वमिति सर्व्वत्र प्रत्यचविषये ज्ञातरिन्द्रियेण व्यवसायः पश्चात् मनसाऽनुव्यवसायः उपहतेन्द्रियाणामनुव्य वसायाऽभावादिति । ब्राह्मादिषु सुखादिषु च प्रत्यचलचणं वक्तव्यम् अनिन्द्रियार्थसन्निकर्षजं हि बदिति, इन्द्रियस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदेशो धर्मभेदात् । भौतिकानीन्द्रियाणि नियतविषयाणि | सगुणानाञ्च षामिन्द्रियभाव इति । मनस्त्वभौतिकं सर्वविषयञ्च नास्य सगुणसे न्द्रियभाव इति सति चेन्द्रियार्थसन्निकर्षे सन्निधिभसन्निधिं चास्य युगपज्ज्ञानानुत्पत्तिकारणं बच्याम इति । मनसश्च न्द्रियभावान्न वाच्य लक्षणान्तरमिति । तन्त्रान्तरसमाचाराचैतत् प्रत्येतव्यमिति परमतमप्रतिषिद्धमनुमतमिति हि तन्त्रयुक्तिः ॥ व्याख्यातम् प्रत्यक्षम् ॥
अथ तत्पूर्व्वकं त्रिविधमनुमानम् पूर्ववच्छेषवत् सामान्यतो दृष्टञ्च ॥ ५ ॥
तत्पूर्व्वकमित्यनेन लिङ्गलिङ्गिनोः सम्बन्वदर्शनम् लिङ्गदर्शनञ्चाभिसम्
For Private And Personal