SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नीतिकल्पतरुः। भूमीशा रविसोमवंशमणयो यद्बाहुलग्ना मही __ खस्था विस्मृतदिक्कुलाद्रिकलनासौ हृष्टपुष्टाजनैः ॥३३॥ इति सिद्धं यदाश्लेषतो देवत्वमिति । इति नीतिकल्पलतायां नीतिस्वरूपनिरूपणाख्यप्रथममञ्जयां नीतिमाहात्म्यवर्णनं नाम प्रथमं कुसुमम् । [२] (४ अ ) इत्थं बुद्धिजीविनां नीत्याख्यया सद्बुन्दयेह देवसमानत्वममुत्र तु साक्षाद्देवत्वमेवेति स्थितेऽप्यदृष्टस्य बलीयस्त्वात्कचिद्व्यभिचारो न दोषायेति समर्थयन्नाह । परंत्वितिः-- बुधैः साक्षात्कृतपरावरैः परेहा परस्यादृष्टस्य देयेलक्षणस्ये. श्वरेच्छा या वेहा चेष्टा बलिनी बलवती मान्या बोध्या बलवत्त्वादेव पूज्या च तबले समापतिते नीतिबलमकिंचित्करतां यातीति । तथा च संजयं प्रति युधिष्ठिरवाक्यम् । 'उत सन्तमसन्तं वा बालं धीरं च संजय । उताबलं बलीयांसं धाता प्रकुरुते वशे' ॥ १ ॥ इति अथ वा तदिच्छया जडापि नीतिफलभाजो भवन्ति पण्डिता अपि व्यर्थप्रयासा भवन्तीति । तथा च स एव 'उत बालाय पाण्डित्यं पण्डितायोत बालताम् । ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ' ॥ २ ॥ इति अथ वा तथा प्रेरयति यथा संपत्तावनयं कुर्वन्तो दृश्यन्ते केचित् , आपत्तावपि नयं कुर्वन्तः केचिदिति । तथा च धृतराष्ट्र प्रति संजयः 1 Corrupt. For Private and Personal Use Only
SR No.020510
Book TitleNiti Kalptaru
Original Sutra AuthorN/A
AuthorV P Mahajan
PublisherBhandarkar Oriental Research Institute
Publication Year1956
Total Pages302
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy