________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
'नीतेरेव फलं सर्व चित्रा या भुवनावली ।
तथा च दर्श्यते सम्यग्यथासौ विहितास्पदा' ॥ २ ॥ असाविति नीतिः ।
आश्रित्य नीतिमिह सोऽपि महोत्पलस्थः सम्यग्विधाय च परां विधिराद्यसृष्टिम् । तत्तत्पदेषु च निधाय निजांस्तनूजानास्ते सुखेन परमेश्वरयोगनिष्ठः ॥ ३ ॥' किं वो (२अ ) महिमास्य साधुजनतानन्दप्रदानोचतो
वेदोक्ताखिलधर्मपालनमतिस्तत्पीडनो योगिनः । संह दनुजाधिपान्हतमतीन्यः साम्प्रतं चाप्यहो
भूबिम्बं चरणाब्जरेणुभिरलं संभूषयत्यद्भुतम् ॥ ४ ॥ ईशानः स च सर्वदेवमहितो गौरीपतिः शंकरो
भूतीशः स चराचरस्य जगतः कर्ताथ संहारकः । चिद्धान्ता' नियतिं नयज्ञकुशलः संस्थाप्य बद्धाजिनो
जूटोत्तड (?)त्तनुर्निरंतरसुखासक्तो' भवत्संयमी ॥५॥ नयज्ञकुशलः कृती स खलु देववृन्दाधिपो
विभज्य विविधाः कृतीरधिकृतांश्च रात्रिंदिनम् । गुरुं गुरुतरं धिया सुचतुरं पुरोधाय' तं
विवेकनिरतोऽस्त्यलं प्रशमयन्स्थितो दानवान् ॥ ६ ॥ इत्थं यस्य यथाविधोऽस्ति विभवो नीतेः फलं तद्विदु
स्तस्माद्यस्य नये रतिः सचतुरा यादृच्छुभा जायते ।
Corrupt. 2 Here the ms. adds the following in the margin.
पूर्वजन्मसाधितनीतिरुरफलमेव ब्रह्मणो ब्रह्मत्वमिति । एवमग्रेऽपि . पुरोधाय पुरोहितं कृत्वा ।
For Private and Personal Use Only