________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीतिकल्पतरुः।
ॐ स्वस्ति श्रीगणेशायनमः। नत्वोमातनयं गौरी व्यासमुख्यमुनीश्वरान् । श्रीव्यासदासः क्षेमेन्द्रो 'नीतिकल्पतरूं' व्यधात् ॥ नीति म नरस्य चक्षुरुदितं दिव्यं यदाश्लेषतो
देवत्वं नितरां परं तु बलिनी मान्या परेहा बुधैः । तत्राप्यत्र पदं विदां विदधतां किं नाम नाप्यं यया
स्मायं समुपैति सिद्धिममला प्रज्ञा च सोक्तान्ततः ॥१॥ निबन्धकारोऽविघ्नेन चिकीर्षितसंपत्ति कामयान 'आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखमिति ' शिष्टोक्तरीत्या नीतिरूपवस्तुनिर्देशादेव मङ्गलं मन्यमान उपक्रमते । नीतिरिति :- अस्ति मानामपि पशुभिः साधारणं चक्षुर्द्वयमिति किंलक्षणं तद्वैलक्षण्यापादकममीषां मर्त्यत्वमिति तत्त्वापादकममषिां वैलक्षण्यमुत्थापयति । दिव्यं चक्षुरिति :- व्यवहितदेशकालविप्रकृष्टसूक्ष्मादिग्राहकत्वं दिव्यत्वमिति । तथा च व्यवहितविप्रकृष्टसूक्ष्मादिना पराशयग्रहणं ग्रहणाशक्तत्वाचर्ममयचक्षुर्द्वयसत्वेन पशुसाधारण्येऽपि मानामनेन नीतिमयदिव्यचक्षुषा तद्वैलक्षण्यं सिध्यतीति। तथा च प्रामाणिका 'बुद्धिजीवी नरः प्रोक्तस्तद्विहीनः पशुः स्मृत' इति । बुद्धिविशेष एव नीतिरिति समनन्तरमेवाने भविष्यतीति । न केवलं पशुवैलक्षण्यमेवामीषामनया यावदमय॑त्वमपीत्यवतारयति । यदाश्लेषत इतिः- यस्या नीतेराश्लेषतः समाश्रयणादमीषां मर्त्यांना देवत्वममर्त्यत्वमिति । व्यवहितादिग्रहणेन तत्समानयोगक्षेमत्वादिति । तद्वदितिःदेवकृच्च विभूत्यादिविराजमानत्वमित्यर्थः । अथ च यदाश्लेषतो देवत्वमेव साक्षादुत्पद्यते एषा चार्थान्तरप्रतीतिर्नितरामित्यनेन द्योत्यते । अर्थाच्च यदनाश्लेषात्पश्वादिस्थावरान्तरत्वं सुलभमेव । तथा चोकं सुशीलशैल्याम् :-- ..
1 Corrupt.
For Private and Personal Use Only