SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीष ॥१९॥ ततः प्रातिहारिकस्य दण्डकादिकस्य प्रातःकाले प्रत्यर्पणार्थ कथयित्वा दिवसावसाने एव प्रत्यर्पयतीति तद्विषयकं सूत्रम् ॥२०॥ एवम्-सागारिकसत्कस्य दण्डकादिकस्य तस्मिन्नेव दिवसावसाने प्रत्यर्पयिष्यामीति कथयित्वा प्रातः प्रत्यर्पयतीति तद्विषयं सूत्रम् ॥२१॥ एवं सागारिकसत्कस्य दण्डकादेः प्रातः प्रत्यर्पयिष्यामीति कथयित्वा तस्मिन्नेव दिवसावसाने प्रत्यर्पयतीति तद्विषयकं सूत्रम् ॥२२॥ एतत्सूत्रचतुष्टयमपि साधोर्वचने मृषावाददोषवत्वेन निषेधविषयकमस्ति । शेषं पञ्चदशसूत्रवद् व्याख्येयम् ।।सू०२२॥ अत्राह भाष्यकार:भाष्यम्-पाडिहारिवसागारि,-संतिए जे गमा भवे । पायपुंछणगे दंडाइए चेत्थ तहेच य ॥ छाया-प्रातिहारिकसागारि,-सरके ये गमा भवेयुः । पादप्रोञ्छनके दण्डादिके चात्र तथैव च ॥ अवचूरिः-'पाडिहारिय' इत्यादि । प्रातिहारिके प्रातिहारिकपादप्रोञ्छनकविषयकपञ्चदशषोडशसूत्रयोयों गमद्वयप्रकारः कथितः स एव हि गमद्वयप्रकारः सागारिकपादप्रोञ्छनविषयकसप्तदशाष्टादशसूत्रयोरपि ज्ञातव्यः । तथा पादपोंछनकविषयके पञ्चदशादिसूत्रचतुष्टये यद्वत् येन प्रकारेण रजोहरणस्य प्रतिपादितो द्वितीयोदेशेकप्रकारेण स एव प्रकारः प्रातिहारिकसागारिकसत्कदण्डादिष्वपि सूत्रचतुष्टयी प्रयोकव्या । एतत्सर्व द्वितीयोद्देशके प्रथमसूत्रादारभ्याष्टमसूत्रपर्यन्तं यथा वर्णितम् तथैवात्रापि पञ्चमोदेशके वर्णयितव्यम् । श्रावकात् याचित्वा आनीतस्य पादप्रोञ्छनकस्य दण्डादेर्वा यथासमयमप्रदाने प्रायश्चित्तं भवति, तथा आज्ञाभङ्गादिका दोषा अपि भवन्तीति ।सू०२२॥ सूत्रम्-जे भिक्खू पाडिहारियं वा सेज्जासंथारंगं पच्चप्पिणित्ता दोच्चंपि अणणुनविय अहिट्ठेइ अहिटूटेतं वा साइज्जइ ॥सू० २३॥ छाया-यो भिक्षुः प्रातिहारिकं वा शय्यासंस्तारकं प्रत्यर्पयित्वा द्वितीयमपि अननुज्ञाप्याधितिष्ठति अधितिष्ठतं वा स्वदते ॥सू० २३। चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पाडिहारियं वा' प्रातिहारिकं वा 'सेज्जासंथारग' शय्यासंस्तारकं श्रावकादानीतं श्रवकाय 'पञ्चप्पिमित्ता' प्रत्यर्पयित्वा प्रत्यर्पणार्थं तु गतवान् किन्तु तत्स्वामिनोऽमुपस्थित्यादिकारणवशात् अनर्प यित्वा तदादायैव समागतः, तत् शय्यासंस्तारकं तत्रैव तिष्ठति, तादृशं शय्यासंस्तारकं पुनः 'दोच्चं पि अणणुन्नविय' द्वितीयं-द्वितीयमपि वारम् अननुज्ञाप्य तस्याज्ञामगृहीत्वैव यदि कारणवशात् 'अहिढेइ' अधितिष्ठति तदुपरि समुपविशति तस्याननुज्ञापितस्य शय्यासंस्तारकस्योपभोगं For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy