SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चूर्णिभाज्यावद्रि उ.५५.१७-२३ प्रातिहारिकसागारिकसत्कदण्डादेरुक्तकाले प्रत्यर्पणनि० १४३ छाया-यो भिक्षुः सागारिकसत्कं पादोंछनकं याचित्वा 'तस्यामेव रजन्यां प्रत्यपैयिष्यामी-'ति श्वः प्रत्यर्पयति प्रत्यर्पयन्तं पा स्वदते ॥सू०१७॥ चूर्णी-'जे भिक्खू सागारिय०' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षु. श्रमण श्रमणी वा 'सागारियसंतियं' सागारिकसत्कम्-सागारिको गृहस्थः तत्सत्कं तत्सम्बन्धि 'पायपुंछणं जाइत्ता' पादपोंछनकं याचित्वा । शेषं पञ्चदशसूत्रवद् व्याख्येयम् ॥सू० १७॥ सूत्रम्-जे: भिक्खू सागारियसंतियं पायपुंछणं जाइत्ता 'सुए पच्चप्पिणिस्सामि'-त्ति तमेव रयणि पच्चप्पिणइ पच्चप्पिणतं वा साइज्जइ ॥ ____ छाया-यो भिक्षुः सागारिकसत्कं पादनोंछननं याचित्वा श्वः प्रत्यर्पयिष्यामी-ति' सस्यामेव रजन्यां प्रत्यर्पयति प्रत्यर्पयन्तं वा स्वदते ॥सू० १८॥ चूर्णी-'जे भिक्खू सागारिय' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सागारियसंतियं' सागारिकसत्कम् गृहस्थस्वामिकं यद् उपाश्रये स्थितं तत् 'पायपुंछणं जाइत्ता' पादप्रोछनकं याचित्वा, शेषं षोडशसूत्रवद् व्याख्येयम् ।।सू० १८॥ सूत्रम्--जे भिक्खू पाडिहारियं दंडयं वा लट्ठियं वा अवलेहणियं वा वेणुसूई वा जाइत्ता एवं एएहिं दोहिं वि चेव पाडिहारिय-सागारियगमएहिं दो दो आलावगा णेयव्वा ॥ सू० १९ ॥२०॥२१॥२२॥ छाया-यो भिक्षुः प्रातिहारिक दण्डक वा यष्टिकांचा अवलेहनिकां वा वेणुसूची वा याचित्वा, एवम् एताभ्यां द्वाभ्यामप्येव प्रातिहारिक-सागरिकगमकाभ्यां द्वौं द्वौ आलापकौ ज्ञातव्यौ । सू० १९ ।२०।२१।२२ ॥ चू-'जे भिक्खू पाडिहारिय०' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'पाडिहारिय' प्रातिहारिकम् पुनः प्रत्यर्पणयोग्यम् ‘दंडयं वा' दण्डकं वा, तत्र दण्डः पूर्वोक्तस्वरूपस्तम् 'लट्ठियं वा' यष्टिकां लघुदण्डरूपां वा रुग्णाद्यवस्थायां ग्रहणयोग्याम् 'अवलेहणियं वा' अवलेहनिकां वा, तत्र चरणादिसंलग्नकर्दमादिकं यया अपनीयते सा वेत्रप्रभृतिनिर्मिता क्षुरिकादिसदृशवस्तुविशेषरूपा, ताम् अवलेहनिकाम्, तथा 'वेणुवईवा' वेणुसूची वा वंशनिर्मिता सूचीम् ‘जाइत्ता' याचित्वा श्रावकात् तद्याचनां कृत्वा 'एवं एएहि' इत्यादि-एवम् अनेनैवाऽऽलापकप्रकारेण एताभ्यां पूर्वप्रदर्शिताभ्यामपि द्वाभ्यामेव, कीदृशाभ्यामित्याह-'पडिहारिय०' इत्यादि-"प्रातिहारिक-सागारिकसत्करूपाभ्यां गमकाभ्यां प्रत्येकस्य द्वौ द्वौ आलापको कर्त्तव्यौ, तथाहि-प्रातिहारिकस्य दण्डकादिकस्य तस्मिन्नेव दिवसावसाने प्रत्यर्पयिष्यामोति कथयित्वा श्वः प्रातःकाले प्रत्यर्पयतीति तद्विषयकं सूत्रम् For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy