SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निशीथसूत्रे श्रावकादिभ्यो गत्वा कथितम्- मह्य रजोहरणं देहि अहं पुनः कार्य संपाद्य तस्यामेव रजन्यां रात्रौ प्रत्यर्पयिष्यामि रात्रेः प्रागेवेत्यर्थः, रात्रौ आदानप्रदानस्य निषिद्धत्वात् रजनीतिपदं दिवसावसानबोधकम् , इत्येवं प्रकारेण याचनां कृत्वा रजोहरणमानीतवान् किन्तु 'मुए पच्चप्पिणई' श्वः प्रत्यर्पयति श्वः परदिने प्रातःकाले रात्रिव्यपगमानन्तरं प्रत्यर्पयति रजोहरणम्, तथा 'पच्चप्पिणंतं वा साइज्जई' प्रत्यपेयन्तं वा स्वदते । यो हि रजोहरणादिकं तदिवसमात्रस्य कृते याचित्वा आनीतवान् । यद्यपि प्रातिहारिक रजोहरणमाहारवस्त्रपात्रादि कम्बलं च न कल्पते साधूनामिति रजोहरणस्य प्रातिहारिकत्वेन याचनं न संगच्छते तथापि अकस्मात् चौरादिना अपहृतम् , अग्निना दग्धं, कुत्रापि विस्मृतं चेद् रजोहरणं भवेत् तदा तात्कालिककार्यकरणाय तद्याचनस्य संभवः किन्तु प्रत्यर्पयति द्वितीयदिने प्रातःकाले । एतादृशं श्रमणं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति मृषावादादिदोषसंभवात् , तथा एतादृशस्याज्ञाभङ्गादयोऽपि दोषा भवन्तीति ॥सू० १५॥ सूत्रम्--जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता 'सुए पच्चप्पिणिस्सामि'-त्ति तमेव रयणि पच्चप्पिणइ पञ्चप्पिणतं वा साइज्जइ । सू०१६। छाया-यो भिक्षुः प्रातिहारिकं पादपोंछनकं यायित्वा 'श्वः प्रत्यर्पयिष्यामी'-ति तस्यामेव रजन्यां प्रत्यर्पयति प्रत्यर्पयन्तं वा स्वदते ॥सू०१६।।। चूर्णी-'जे भिक्खू पाडिहारियं' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'पाडिहारियं' प्रातिहारिकं पुनः प्रत्यर्पणयोग्यम् 'पायपुंछणं' पादपोंछनकं 'जाइत्ता' याचित्वा श्रावकेभ्यो पादपोंछनस्य याचनां कृत्वाऽऽनीतं 'मुए पच्चप्पिणिस्सामि'-त्ति श्वः प्रातःकाले प्रत्यर्पयिष्यामि, अर्थात् कश्चित् साधुः श्रावकगृहं गत्वा कथयति-भोः! मह्यमेकं पादपोंछनक देहि कार्य कृत्वा प्रातः पुनः प्रत्यर्पयिष्यामि' इति कथयित्वा श्रावकेभ्यो पादपोछनकं गृहाति किन्तु 'तमेव रयणि पच्चप्पिणइ' तस्यामेव रजन्यां-रजनीमुखे दिवसावसाने प्रत्यर्पयति, यदिवसे एव याचनां कृत्वा द्वितीयदिवसे दातुं कथयित्वा आनीतवान् तत् तस्यामेव रात्रौ रात्रेः पूर्वमेव पुनः प्रत्यर्पयति, तथा 'पञ्चप्पिणतं वा साइज्जइ' प्रत्यर्पयन्तं वा वा स्वदते, प्रातःकाले प्रत्यर्पयिष्यामीति कथयित्वा प्रातिहारिक रजोहरणं याचित्वा आनीतवान् परन्तु तदात्रेः प्रागेव प्रत्यर्पणं करोति, तादृशं श्रमणं योऽनुमोदते स प्रायश्चित्तभागी भवति, एवं करणे साधोर्वचने मृषावाददोषापत्तिः स्यात् । सूत्रम्-जे भिक्खू सागारियसंतियं पायपुंछणं जाइत्ता 'तमेव रयणि पच्चप्पिणिस्सामि'-त्ति सुए पच्चप्पिणइ पच्चप्पिणतं वा साइज्जइ । सू० १७॥ For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy