SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूणिभाष्यावरिः उ०५ सू०१४-१६ प्रातिहारिकपादप्रोञ्छनस्योक्तकाले प्रत्यर्पणनि० १४१ सूत्रम्-जे भिक्खू पिउमंदपलासयं वा पडोलपलासयं वा बिल्लपलासयं वा सीओदगवियडेण वा उसिणोदगवियडेण वा संफाणिय संफाणिय आहारेइ आहारेंतं वा साइज्जइ ॥ सू० १४॥ छाया-यो भिक्षुः पिचुमन्दपलासकं वा पटोलपलासकं वा बिल्वपलासकं वा शीतोदकविकटेम वा उष्णोदकविकटेन वा संफाणिय संफाणिय आहरति आहरन्त वा स्वदते ।। खू० १४॥ चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पिउमंदपलासयं वा' पिचुमन्दपलाशकं वा, तत्र पिचुमन्दः निम्बवृक्षः, तस्य पलाशकं पत्रं वा 'पडोलपलासथं वा' पटोलपलाशकं वा, तत्र पटोलो लताविशेषः 'परवल' इति भाषाप्रसिद्धः, तस्य पलाशकं पत्रम् , तदा बिल्लपलासयं वा' बिल्वपलाशकं वा, तत्र बिल्वो बिल्ववृक्ष 'बिल्ली' 'बेल' इति प्रसिद्धः, तस्य पलाशकं पत्रम् । एतेषां पत्राणां भक्षणस्य दर्शनान्तरीयसाधौ प्रसिद्धत्वेनात्र तस्य प्रतिषेधो वर्णितः, कित्वत्र पत्रमात्राणां सर्वेषां पत्राणां प्रहणं बोध्यम् , तेषां सजीवत्वेन जीवविराधनात् , तादृशानि सचित्तानि पत्राणि 'सीओदगवियडेण' शीतोदकविकटेन बा, तत्र विकटेन व्यपगतजीवेन अचित्तशीतजलेन तण्डुलधावनादिज नेत्यर्थः, अथवा 'उसिणोदगवियडेण वा' उष्णोदकविकटेन वा व्यपगतजीवेनोष्णोदकेन अचित्तोष्णोदकेनेत्यर्थः, 'संफाणिय संफाणिय' तत्र 'संफाणिय' इति देशी शब्दस्तेन 'संफाणिय' इति फेनयुक्तानि कृत्वा कृत्वा, तथा च अचित्ताभ्यां शीतोष्णजलाभ्यां सम्यक् तादृशपत्राणि संमई संमद्येत्यर्थः 'आहारेइ' आहरति तेषां भक्षणं करोति, तथा 'आहारतं वा साइज्जइ' आहरन्तं वा स्वदते । निम्बादिवृक्षपत्राणामचित्तजलेन प्रक्षालने कृत्वा आहारं कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० १४॥ सूत्रम्--जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता 'तमेव रयणि पच्चप्पिणिस्सामि'-त्ति सुए पञ्चप्पिणइ पच्चप्पिणतं वा साइज्जइ ॥सू० १५॥ छाया-यो भिक्षुः प्रातिहारिकं पादपोंछनकं याचित्वा 'तस्यामेव रजन्यां प्रत्यर्पयिध्यामी'-ति श्वः प्रत्यर्पयति प्रत्यर्पयन्तं वा स्वदते । सू० १५।। चूर्णी-'जे मिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘पाडिहारियं पायपुंछणं' प्रातिहारिकं पादप्रोछनकम् , तत्र श्रावकादिभ्य आनीतं प्रत्यर्पणयोग्य वस्तु प्रातिहारिकमिति कथ्यते, तथा पादपोछनकं रजोहरणम् 'जाइत्ता' याचित्वा 'तमेव रयणि पच्चप्पिणिस्सामि'-त्ति वस्यामेव रजन्यां प्रत्यर्पयिष्यामीति, सूत्रे 'तमेव रयणि' इत्यत्र सप्तम्यर्थे द्वितीया प्रांकृतत्वात् , For Private and Personal Use Only
SR No.020508
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilalji Maharaj, Kanhaiyalalji Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari & agam_nishith
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy