SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। नागरिकः-तर्हि शिक्षयतु भवानिमम् । किंकरः-अरे, कथय तथ्यम् । मृषावादिनस्तव वैदिकता राजशासनस्य न प्रतिरोधिनी । (इति कशामुद्यच्छति ।) पुरुषः-मा ताडय । तथ्यं वदामि । नागरिकः-यदि तथ्यं वदसि तदा विज्ञानमन्त्रिणं दर्शयित्वा संभावयिष्यामि । किंकरः-प्रतीहार्या धारणया सह प्रासादमधिरूढो मन्त्री । तत्संनिधौ त्वमपि नेष्यसे । पुरुषः-(स्वगतम् ।) तथा चेन्मम दुर्लभमेव जीवितम् । (प्रकाशं भीतिमभिनीय ।) अभयं मे दीयतां यदि तथ्यमेव श्रोतव्यम् । (इति प्रणति ।) नागरिक:-दत्तभयोऽसि । कथयात्मानम् । पुरुषः-(उत्थाय प्राञ्जलिः ।) हृद्रोगोऽस्मि । विसृज मां दयया । नागरिकः-चार एवायं वैदिकवेषमवलम्ब्यागतो दत्ताभयश्च । किंकरः-तर्हि किं कर्तव्यम् । नागरिक:-'सर्वमिदं राजकार्य त्वया कस्मैचिदपि न कथनीयम्' इति शपथं गृहीत्वा पुराबहिर्विसृज्यताम् । अथवा किमनेन वराकेण कथनीयम् । दत्ताभयोऽयमिति मन्त्रिणे निवेद्य कथंचिन्मोचयितव्यः । किंकरः-तथा करोमि । (इति निष्क्रान्तः ।) (नेपथ्ये कुकुटध्वनिः ।) नागरिकः-(आकर्ण्य ।) कथं रजनीविरामः । (पुनर्नेपथ्ये) वैतालिक:पत्यावस्तं व्रजति विगलच्चञ्चरीकाञ्जनाश्रु त्रासान्मीलद्दलदृशमितो रागमर्कक्रमेण । द्रागालिङ्गेदपि कुमुदिनीमित्यपन्यायशङ्की कूकूशब्दं विसृजति जवात्कुक्कुटः पूर्वमेव ॥ ४ ।। For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy