SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ अङ्कः] जीवानन्दनम् । नागरिक:-अस्त्वेतत् । कुतो रात्रिसंचारः । पुरुषः-यस्यकस्यचिद्यत्किचिद्भाविफलमुक्त्वा पारितोषिकं गृह्णामीति । नागरिकः-किं दिवसस्ते तत्कर्मणो न पर्याप्तः । पुरुषः-बाढम् । श्रूयताम् । यामो यात्यविलम्बितं दिनमुखे स्नानादिभिः कर्मभिः पश्चाद्भिक्षितुमारभे प्रतिदिनं धान्यानि वा तण्डुलान् । तैरन्नाद्युपपाद्य धूर्जटिमुखान्देवान्निवेद्यातिथी न्संतानत एव याति दिवसः शेषः कुतः संचरः ॥ २ ॥ किंकरः-अये, युक्तमिदम् । इह तु यामादूर्ध्व रुध्यते नगरसंचारः । पुरुषः-यदीदानी यामादूर्व कालस्तहि न संचरामि स्वप्स्यामि । किंकरः-कुत्र निद्रास्थानम् । पुरुषः-धर्मशालायाम् । नागरिकः-किमिदं राजमन्दिरं तव धर्मशाला । अत्र हि नोंकारः पुवते न गीतिरटति स्वाहेति न श्रूयते न न्यायव्यवहारतारवचसः संघीभवन्ति द्विनाः । नात्युच्चैः पृषदाज्यहोमसुरभिधूम्या जरीजृम्भते भक्ताः पञ्चजनाः स्वपन्ति परितो न स्त्री कुमारो न च ॥३॥ पुरुषः-अस्त्विदं राजमन्दिरं तथापि सुप्रवेशमसादृशामिति श्रुतमस्ति । नागरिकः-सुप्रवेशमिति कस्मात्त्वया श्रुतम् । पुरुषः----आर्यमिश्रेभ्य एव । नागरिक: हन्त, किमस्माभिरिदं कथितम् । पुरुषः-नहि नहि । अन्यजनैः । नागरिकः-कैस्ते कथितम् । यदिदं परिचितजनस्यापि राजशासनमन्तरेण दुष्प्रवेशम्, किं पुनरपरिचितस्य ते । किंकरः-विसंस्थुलेवास्य वचनव्यक्तिः गृहीत इव चोरस्तरलतारकविलोचनः पश्यन्नयं वक्तुं न शक्तः प्रत्युत्तरं ततश्चर इव लक्ष्यते । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy