________________
Acharya Shri Kailasagasti Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गयबद्धश्री मलय-1 सुन्दरी कथा ॥
"तक्रादिव नवनीतं पङ्कादिव पद्मममृतमिव जलधेः। मुक्ताफलमिव वंशाद धर्मःसारं मनुष्यभवात"
___'पङ्कादपि कमलम्' इति सत्यम्" । पुनर्विजयचन्द्रेणोक्तम्-'इदं त्वयैव सेत्स्यति कार्यम् । शृणु-एतनगरप्रत्यासन्ने एकशृंगनाम्नि पर्वते सुगुप्ता कूपिका वर्तते । तन्मध्ये बन्धमोक्षकारकं जलं वर्तते देवताधिष्ठितम् । कृषिकाया द्वयोः पार्श्वगे। पर्वतौ वर्तते । तौ च नेत्रपझे इव मीलनोन्मीलनं कुरुतः, तत्र सलिलग्राही चेद् भीतस्तदा स मृत एव । एतौ द्वौ यदा उद्घटेते तदा यदि पुत्र एव पितुरर्थे कूपिकान्तः प्रविश्य, पानीयमानीय बहिनिर्गच्छति, तेन च पानीयेन पुत्रो यदि स्वयं बद्धं निजपितरं त्रीन् वारान् आच्छोटयेत् तर्हि बन्धमोक्षो भवेत् । एषा पद्धतिस्त्वयैव सेत्स्यति । इति विजयोक्तं गुणवर्मणा सर्व प्रतिपन्नम् । ततो द्वावपि तो तत्र पर्वते कृपिकापावे
गतौ । पर्वतद्वये विघटिते सति मश्चिकारज्जुप्रयोगेण मध्ये प्रविश्य गुणवर्मणा निर्भयेन सता तत्पानीयेन पात्रमापू. | रितम् । ततो विजयेन स बहिनिष्काशितः। ततस्तौ तुरंगरूपं कृत्वोपस्थितं राक्षसमेव आरुह्य शीघ्रं चन्द्रावती
प्राप्तौ । गुणवर्मणा स्वपिता स्वयं जलेनाच्छोट्य सज्जीकृतः। लोभनन्दी तथैव स्थितः । गुणवर्मणो महोपरोधेन विजयेन तोडुकस्थानाद् गृहमध्यमानीतः। स तु व्यथादितः विरसं स्टन् तथैवास्थाद्, यतः पुत्रं विना कथश्चन बन्धमोक्षो नैवाऽभूत् । ततो गुणवर्मणा रसतुम्बकं विजयाय दत्तम् । तेनापि तुष्टेन तस्मै प्रदत्तम् । एवं विजयस्तदाग्रहात् प्रीत्या कियन्ति दिनानि स्थित्वा स्वस्थानं ययौ। सोऽहं गुणवर्मा लोभाकरस्य पुत्रीऽस्मि। मत्पितपितृव्याभ्यां न्यासापहारकरणाऽपराधः कृतोऽस्ति, हे प्रभो! त्वं क्षमस्व । अन्यः कोऽपि अधिकं न्यनं वा कथयेद् इति मया स्वस्वामिने विज्ञप्तमस्ति" ।
॥
८
॥
For Private And Personal Use Only