SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir 18 "दानं वित्ताद ऋतं वाचः कीर्ति-धर्मो तथायुषः। परोपकरणं कायाद् असारात् सारमुद्धरेत्" ।।१।। इति प्रोच्य विजयचन्द्रे स्थिते सति गुणवर्मणा चिन्तितम्-'ममापि पितृमोक्षकार्य तदा सेत्स्यति यदि अस्य कार्य सेत्स्यति । ततस्तेन सहायकत्वे प्रतिपन्ने सति तौ द्वावपि राजभवनं गत्वा, पादाभ्यङ्गसामग्री मेलयित्वा, विजयां प्रोच्य गृहमध्ये गुप्तस्थाने स्थितौ । तावता रात्रौ राक्षस : 'क्वापि मानुषो गन्धः' इति ब्रुवंस्तत्रागात् । विजयां प्रोवाच-'भद्रे ! किमु क्यापि मनुष्यस्तिष्ठति ? । सा ऊचे-'इह अहं मानुषी, अन्यो मानुषसम्भवः कुत: ?' ततः प्रसुप्तस्य राक्षसस्य पादौ वधूमिषाद् दक्षो गुणवर्मा तस्याऽलक्ष्यो निर्भीको गाढं गाढं मर्दयामास । अथ मनुष्यगन्धेन पुनः पुनरुत्तिष्ठन्नपि राक्षसो गुणवर्मणा गाढचरणमर्दनेन स्वापितः । तावता विजयचन्द्रेण सहस्रजापं कृत्वा खड्गं धृत्वा प्रकटीभूय राक्षसो हकितः । गुणवर्माऽपि नृवेषं चक्रे । ततस्तौ दृष्ट्वा राक्षस उत्थितोऽपि वशीकरणविद्यया वश एव जातः । प्रोचे च-'भो ! भवतोः किङ्करोऽस्मि । यत् कार्य तत् कथ्यताम् । विजयचन्द्रेणोक्तम्-'मदीयं नगरं वासय' । तेन तत्क्षणं सर्वे लोका आनीताः । कलकलायमानं नगरं जातम् । राक्षसेन विजयचन्द्रो राज्येऽभिषिक्तः । ततो विजयचन्द्रेणोक्तम्-'भोः श्रेष्ठिन् ! तवोपकारो महान् जातः । त्वमपि किश्चित् कार्य कथय' । गुणवर्मणा स्वस्वरूपं कथितम् । विजयेनोक्तम्-"त्वं किं लोभाकस्य पुत्रः । स तु कूटनिधानं, त्वं तु एवंविधः ! । परम् उक्तमस्ति - गवदश्री मलयसुन्दरीकथा ॥ For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy