________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
ततो वीरधवलेन गज्ञा बहुमानं दवा श्रेष्ठी विसृटो गृहं ययौ । राजा अनपत्यत्वाद् मनसि पुत्रचिन्तया अत्याकुलः सभा विसृज्य आवासमध्ये ययौ । तत्र चम्पकमालया देव्या पृष्टम्-'प्राणेश ! कि मुखे विच्छायता?"। राज्ञा तदये गुणवर्मप्रोक्तं वृत्तं कथयित्वा प्रोक्तम्-'प्रिये ! पुत्रं विना विजयचन्द्रवत् पितृगज्यं का पालयति !, गुणवर्मवत् पितुरर्थे स्वजीवं सन्देहे कः पातयति !, लोभाकरमिव को जनकं सजं करोति ?, अतोऽहमपि अपत्रत्वाचिन्तातुरतया विच्छायोऽस्मि' । देवी प्राह-'प्राणेश ! एषा चिन्ता मम प्रासादे सदैव वर्तते, परं न वदामि । सत्यमेवेदम्“साहसवंत सुजाण नर जहिं पुत्तूंम न हुँति । थंभ विहणा गेह जिम धवक्कडइंति पडंति ॥१॥ मलि करंतो रंगभरि जे नवि देशइ बाल । माणस मानुं ढाढसी किम किम गमैति काल ||२|| आंखडीये अणियालडी वयणविकास धरंतु । लहुली करउं जोयतां दीहां जंति तुजं तु” ॥३॥ राजाऽपि प्राह
नभो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना । प्रतापलक्ष्मीर्बल-कान्तिशालिना विना न पुत्रेण विभाति नः कुलम् ॥१॥ ततो देव्या प्रोक्तम्-'कोऽपि सप्रत्ययो देव आराध्यते । ततः पुत्रप्राप्तिः स्यात् । यतः
गद्यबद्धश्री मलय
सुन्दरी
कथा ।
For Private And Personal use only