SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuti Gyanmandir www.kobatirth.org क्रन्दन्तौ तिष्ठतः । स पुरुष एवं कृत्वा गतः । लोभाकरपुत्रो गुणवर्मा ग्रामान्तरादागतः । तत्स्वरूपं लोकमुखाद् ज्ञात्वा दुःखितो मत्र-तन्त्रादिकं कारयामास, परं तयोद्वयोरपि विशेषतो व्यथाऽभूत् । ततश्चिन्तितम्-'येन कीलितो तेनैव मोक्षः, नान्येन ' । इति विमृश्य कुटुम्बस्य गृहशिक्षां दवा तं पुरुष द्रष्टुं चलितः । पृथ्वीतले भ्रमन् क्वापि धन-धान्यसमृद्धमपि निर्मानुषं नगरं दृष्ट्वा विस्मितो मध्येऽविशत् । तेन गच्छता एकः पुरुषो दृष्टः । तेनोक्तम्-' हे वीर ! कस्त्वम् ?, किमिदं नगरं शून्यम् ? । तेनाप्युक्तम्-त्वं कः ?' । सोऽवादीत- अहं पथिकः, परं स्वरूपं कथय । इत्युक्ते स वीरपुरुषोऽवादीत-"भृणु, इदं कुशवर्द्धनं नाम नगरम् । अत्र सूरो नाम राजा । तस्य जयचन्द्र-विजयचन्द्रौ पुत्रौ । पित्रा जयचन्द्राय राज्यं दत्तम् । पितरि विपन्नेऽहं विजयचन्द्रोऽहकारं धृत्वा अस्मात् पुरान्निर्गत्य भ्रमन् चन्द्रावतीनगरी यातः । तद्वने मया कोऽपि सिद्धपुरुषोऽतीसाररोगी दृष्टः । मया कृपया स उपचरितः, पटुर्जातः । तेन तुष्टेन स्तम्भनी वशीकरणी च द्वे विद्ये दत्ते, सुवर्णनिष्पादकरसतुम्बकं च दत्तम् । इति दचा सिद्धनरः श्रीपर्वते गतः । अहं च चन्द्रावतीमध्ये लोभनन्दि-लोभाकरहट्ट गतः । ताभ्यामावर्जितः । तयोर्हस्ते रक्षणाय रसतुम्बकमर्पितम् । मया तत्रैव पुरे कौतुकानि पश्यता कियन्ति दिनानि स्थित्वा मातुर्मिलनाय उत्कण्ठितेन सता श्रेष्ठिनो इट्टं गत्वा रसतुम्बकं याचितम् , परं ताभ्यां कूटमुत्तरं कृतम् । ततो मया कुपितेन कूटस्य फलं दर्शितम्" । अत्रावसरे श्रेष्ठिना चिन्तितम्-' पित्रोःखकर्ता स १. मृते । २. सम्मानितः । ३. पितृ-पितृव्ययोः । गद्यबद्धश्री मलयसुन्दरीकथा ॥ For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy