________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirih.org
Acharya Shri Kailassagarsuti Gyanmandir
गद्यबद्धश्री मलयसुन्दरीकथा ||
तथाहि-इह जम्बूद्वीपे भरतक्षेत्रे चन्द्रावती नगरी । तत्र वीरधवलो नाम राजा । तस्य चम्पकमालानाम्नी राज्ञी, द्वितीया कनकवती च । ताभ्यां द्वाभ्यां राज्ञीम्यां सह सुखेन राजा कालम् अनिचक्राम । अन्यदा राजसभायां प्रविष्टः प्रतिहारेण विज्ञप्त:-'प्रभो ! गुणधर्मश्रेष्ठी तव द्वारे तिष्ठति' । राजादेशे जाते सति म श्रेष्ठी प्राभृतं पूरो मुक्त्वा नृपं नत्वाऽतिष्ठत् । राज्ञोक्तम्-'कस्त्वम् ?, केन हेतुना प्राप्तोऽसि ? । स पाह" श्रूयताम् , हे प्रभो । अत्रैव तव नगरे लोभनन्दी लोभाकरश्च द्वौ भ्रातरौ वर्तते । लोभनन्दी पुत्ररहितो, लोभाकरस्य तु गुणवर्मा पुत्रः । ___"अन्यदा तो द्वावपि श्रेष्ठिनौ हट्टनिविष्टौ भद्राकारं कश्चिन्नरं दृष्ट्वा सन्मार्गदानेन प्रतिपत्तिं कृत्वा विश्वासवन्तं चक्रतुः । तेन पुरुषेण रक्षणार्थं रसतुम्बकम् एकमर्पितम् । ताभ्यां हट्टान्तरुद्वध्य मुक्तम् । पुरुषस्तु क्वापि गतः । अथ रसतुम्बकाद् गलित्वा रसबिन्दवः पतिताः, तैश्च अधःस्थितं कुशीप्रमुखं लोहं स्वर्णरूपं दृष्ट्वा वणिजौ विस्मितौ । लोमान्धाभ्यां ताभ्यां तत् तुम्बकं क्वापि गोपितम् । कियत्सु दिवसेषु गतेषु तुम्बकमोक्ता पुरुषः समेत्य तुम्बकं ययाचे । श्रेष्ठिम्यां कथितम्-'भोस्तत् तुम्बकं भग्न, यदि प्रत्ययस्तस्य तदा खण्डानि पश्य। इत्युक्त्वा अन्यस्य कस्यचित्तुम्बकस्य खण्डानि दर्शितानि । तेन तानि दृष्ट्वा चिन्तितम्-'नूनम् एतानि मम तुम्बकस्य न भवन्ति, किन्तु लोभान्धौ वणिजौ ममाग्रे कूटम् उत्तरं कुरुतः ' तेन बह्वपि प्रोक्तं, परं तुम्बकं न दत्तम् । ततस्तेन पुरुषेण क्रुद्धेन 'सता लोभनन्दि-लोभाकरौ गृहतोडकस्थाने स्तम्भनी विद्यया कीलितौ व्यथाऽऽकुलो
For Private And Personal use only