________________
Shri Mahavir Jain Aradhana Kendra
iwww.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
ॐ अहं नमः
श्री-माणिक्यसुन्दरसूरि-संदृब्धा गद्यबद्ध-श्री मलयसुन्दरी-कथा ॥
अथ प्रथम उल्लासः । जातो यः कमलाकरे शुचिकुले श्रीअश्वसेनेशितुः, प्रेसद्भोगफलाक्लीवरदल: प्रोन्मीलिनीलच्छविः । सत्कीर्त्या सुरभिर्ददातु सुमनोराजीवराजी विभुः, स श्रीपार्श्वजिनेश्वरः सुरतरुः श्रेय:फलं नः सदा ॥१॥ तं प्रणम्य प्रभु पाव सर्वकल्याणकारकम् । कथा मलयसुन्दर्याः सौन्दर्यसहितोच्यते ॥ २ ॥ ज्ञाने शीले क्षमायां च जिनाशातनवर्जिते । कथा मलयसुन्दर्या ज्ञेया च व्रतपालने ॥ ३ ॥ श्रीपार्श्वनाथदेवस्य कैशिना गणधारिणा । पूर्व शङ्खनरेन्द्राग्रे कथितेयं कथा प्रजा ॥ ४ ॥ प्राकृतैः संस्कृतैः पद्यैः कृता पूर्वे सविस्तरा । कथाऽसौ गद्यबन्धेन संक्षिप्य किल कथ्यते ॥ ५ ॥
गद्यबद्ध|श्री मलयसुन्दरीकथा ॥
For Private And Personal use only