________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh
Gyanmandir
गद्यबद्धश्री मलयसुन्दरी
॥ ३२ ॥
तदुपरि स्थापिता । ततः कुमारेण स स्तम्भश्चित्रितस्तथा यथा सन्धिरपि न ज्ञायते । तस्य तत्र तिष्ठतस्ते तस्करा: पुरमध्यात प्राप्ताः । स्वां मञ्जूषा रक्षपालं च अदृष्ट्वा तत्स्वरूपं कुमारस्याग्रे प्रोच्य पुनः पप्रच्छु:'सक्क' । तेनोक्तम्-'पूर्व मदीयमेकं कार्य कुरुत, पश्चात् कथयामि । तेरुक्तम्-'कि ते कार्यम् ?'। तेनोक्तम्-'स्तम्भमेतमुत्पाट्य प्रतोलीप्रवेशं नयत' । तैस्तथा कृते सोऽवादीत-'अहं प्रच्छन्नस्थितो यादृशं दृष्टवान् तादृशं कथयन्नस्मि-तेन रक्षपालेन तालकं भक्त्वा मञ्जूषा उद्घाटिता, सारं वस्तु च दृष्ट्वा मजूषां नदीजले क्षिप्त्वा मध्ये प्रविश्य तां तारयामास । एवं कुर्वन् दृष्टः, ततोऽहं न वेनि' । इति श्रुत्वा ते तस्करा नदीतटं प्रति धाविताः । कुमारेण च स्तम्भरक्षां कुर्वता रात्रिरतिक्रान्ता । प्रातः स्तम्भः पुरमध्ये मण्डपे स्थापितः । अग्रेतनं सर्व स्वरूपम् एवं कुमारस्य कुमार्याश्च पूर्वस्वरूपं प्रोक्तम् ।
अथ कुमारेण प्रोक्तम्-'हा हा ! देवकुलशिखरस्थितश्चौरो मरिष्यति, अहं गत्वा तं निष्काशयामि' । कुमार्योक्तम्-प्राणेश ! अहमपि सहैव आगमिष्यामि'। ततो वेगवत्या अग्रे प्रोच्य तौ द्वावपि चलितौ । राजा नरेश्वरान् बहु मानयामास, परं ते प्रोचुः- वयं प्रातस्तं महाबलं हत्वा त्वत्सुनां गृहीत्वैव यास्यामः, नान्यथा' । राजा तन्निश्चयं ज्ञात्वा त्वरित करमी सजीकृत्य कुमारचालनाय कृतनिर्णयस्तत्रागात् । तौ अदृष्ट्वा गज्ञा पृष्टं वेगवत्योक्तम्- ' कुमार्योक्तं यद् मया देव्या उपयाचितकं कृतमस्ति, ततस्तौ बहिर्गतौ' । तच्छृत्वा राजा क्षणं प्रतीक्ष्य बभाषे–' अद्यापि तो नायातौ, किं कारणम् ? ' । तौ सर्वत्र पुरमध्ये विलोकिती, परं न लब्धौ ।
॥ ३२ ॥
For Private And Personal Use Only