SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir ॥ ३१॥ बहिर्वर्तते । त्वं का? । ततः सा सर्व स्वस्वरूप प्राह । मयोक्तम्-'यदि पतिमिच्छसि तदा तद् मन्मित्रं कुरु । यत् तवाभरणादिकं तद् दर्शय । तया सर्व दर्शयित्वोक्तम् - लक्ष्मीपुनहारश्चतुष्पथस्थितकीर्तिस्तम्भासन्ने न्यस्तोऽस्ति । साम्प्रतं मध्यरात्रिर्जाता, प्रातस्तु दिनेऽहं प्रकटं तत्र गन्तुं न शक्नोमि, सन्ध्यासमये प्रदोषे एव त्वया सह मित्रपार्श्वे नेष्यामि' । इत्युक्त्वा स्थिता । अहमपि सुखेन सुष्वाप । प्रभाते मया कीर्तिस्तम्भस्थाने हारो विलोकित:, परं न लब्धः । सायं मयोक्तम्-' आगच्छ, गम्यते' । ततः सा वेश्यागृहानिर्गत्य तं हारं गृहीत्वा आगच्छति, अहमने भृत्वा समेताऽस्मि" । कुमारेणोक्तम्-'अहं देवकुले पाश्चात्यभागे तिष्ठन्नस्मि । अत्र साम्प्रतं तस्कगः समेता आसन् , सावधानतया भाव्यम् । इत्युक्त्या महाबलोऽदृष्टो भृतः । तावता कनकवती तत्रायाता बभाषे-'क ते मित्रम् ?' तयोक्तम्-' मैवं वद, निभृता तिष्ठ, अत्र केऽपि प्रत्यासन्ने तस्करा: सन्ति' । सा भीताऽभाणीत-'रक्ष्यतां मम हारादिकं, ते ग्रहीष्यन्ति' । कुमार्योक्तम्-'मा भेपीः, एका मञ्जुषाऽत्र वर्तते, मम हस्ते सारदुकूल-हारादिकं समय त्वं मध्ये प्रविश यावत् तस्करा यान्ति' । तया तथैव कृतम् । सा मञ्जूषामध्ये प्रविष्टा । कुमार्या तालकं दत्वा कुमार आहूतः । ताभ्यां द्वाभ्यामुत्पाटय मक्षा गोलानदीजले प्रवाहिता । वैरं वालितम् । ततः कुमारेण कुमारी ललाटे निष्ठयूतेन स्पृष्ट्वा श्रीरूपा चक्रे । चन्दनेन अर्चित्वा हार-दुकूलभूषितां च कृत्वा सजीकृतफालीमध्ये स्वापिता । ' यदाऽहं वीणां वादयित्वा बाणं मुश्चामि तदा त्वया एता नष्टाः कीलिकाश्चालनीयाः, फालीद्वयं विघटिष्यते' इत्युक्त्वा द्वितीया फाली गद्यबद्ध श्री मलय सुन्दरीकथा ॥ ॥३१॥ For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy