SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गद्यबद्ध - श्री मलय सुन्दरी कथा || ।। १२ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir fi यूयमत्र ९, fi नानि वस्त्राणि १, को वा मृतः ?' । राजा प्राह - 'सर्वं कथयिष्यते, परं त्वं स्वस्वरूपं निवेदय' । ततः सर्वः कोऽपि वटवृक्षतले निविष्टः । अथ राज्ञी वक्तुं प्रवृत्ता - "हे नाथ ! मदीयं दक्षिणनेत्रं स्फुरितम् इति स्वमपि जानासि । ततोऽहं वने भवने च क्वापि रतिमप्राप्ता पल्यङ्के सुप्ता । सखी पत्रार्थं प्रहिता । यावत् किञ्चिद् निद्रा समेति तावत् केनाप्युत्पाटिता, क्वाऽपि च शृङ्गे मुक्ता । स च दुष्टो मुक्त्वा मयि पश्यन्भ्यामेव क्वापि गतः । अहं शिलातलादुन्धाय मनसि विविधां चिन्तां कुर्वाणा दिशामेकां गृहीत्वा प्रस्थिता । अग्रे जिनमन्दिरं दृष्ट्वा मध्ये गता । तत्र श्री ऋषभप्रभुः स्तुतः - "अहो ! अमेघजा वृष्टिः अहोऽकुसुमजं फलम् । अहो ! पुराकृतं पुण्यं यद् दृष्टो नाथ ! लोचनैः || १ || | नमस्तुभ्यं जगन्नाथ ! त्रैलोक्याम्भोजभास्कर ! संसारमरुकल्पद्रो ! विश्वोद्धरणबान्धव ! ॥२॥ देव ! त्वं दुःखदावाग्नितप्तानामेकवारिदः । मोहान्धकारमूढानामेकदीपस्त्वमेव हि ||३|| त्वां ध्यायन्तः स्तुवन्तश्च पूजयन्तश्च देहिनः । धन्यास्ते जगृहुर्देहाद् मनोवाग् वपुषां फलम् ||१४||| "एवं मयि स्तुवत्यां काऽपि दिव्यरूपा स्त्री समेता । मां प्राह- 'हे सुन्दरि ! श्री ऋषभदेवस्याहं शासनदेवता चक्रेश्वरी देवी तव जिनभक्त्या तुष्टाऽस्मि । मया प्रोक्तम्- ' तर्हि कथय केन कुत्राऽहम् आनीतास्मि ?' | सावादीत् "शृणु, चन्द्रावतीशवीरधवलस्य त्वत्प्रियस्य वीरपालो भ्राताऽभूत् । स राज्यलुब्धो नृपं हन्तुमिच्छति । अन्यदा For Private And Personal Use Only ॥ १२ ॥
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy