________________
Shri Mahavir Jain Aradhana Kendra
॥ ११ ॥
| www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकान्ते स्थापयित्वा दिनशेषं रात्रिं च अतिक्रमयमासुः । प्रातर्भूवो देवीं तादृशामेव ही 'मृत' इति मत्वा मूच्छितः, चन्दनजलेन सिक्तः सचेतनो बाढं विललाप । विलप्य मन्त्रिणः प्रति प्राह - भो ! गोलानदीतटे चितां रचयत, अहमपि देव्या सह अग्निं प्रवेक्ष्यामि । मन्त्रिणो रुदन्तः पादयोर्लगित्वा प्राहुः - 'प्रभो ! केयम् अधीरता ? त्वयि विनष्टे सर्व विस्लं राज्यसूत्रं विभावि !' । राज्ञोक्तम्- 'यद् भावि तद् भवतु, परं मया तु अस्या अग्रे जीवनं मरणं च सहैव प्रतिपन्नम् । एवं सर्वं परिज्ञाप्य मृतदेवीशिविकया सार्धं राजा चचाल । पौरलोका रस्ता रुदन्ति स्म । नृपस्य परिच्छदो नदीतटं प्राप । तत्र चिता स्थापिता । राज्ञा स्नानं कृतम् । अन्येऽपि बहवोऽप्रवेशाय सज्जीभूताः ।
तस्मिन्नवरे प्रवाहपतितं बन्धनैद्धं महत् स्थूलं काष्टमेकमागच्छद् दृष्टम् । मन्त्रिभिस्तारका भाषिता :- 'भोः ! काष्ठमेतत् कृपत, चिताकाष्ठेषु कार्ये समेति । तैस्तत् काष्ठं जलाद् बहिरानीतम् । राज्ञि लोके च पश्यति सति बन्धेभ्यश्छोटितम् । ततः सम्पुटसदृशं तद् दृष्टम् । सम्पुटेऽपि विघटिते सति सर्वाङ्गविलिप्ता दिव्यपुष्पमालाञ्चिता दिव्यहारभूषिता देवी चम्पकमाला निद्रां प्राप्ता दृष्टा । 'अहो ! चित्रं चित्रम् !' इति सर्वेऽप्यवादीत् । राजाऽपि विस्मयं प्राप्तः प्राह - 'भोः । शवस्थानं वीक्ष्यताम्' । तैस्तत्र गत्वा सा शिविका यावद् उद्घाटिता तावता श हस्तौ वर्षयद्, दन्तैर्दन्तान् विषद्, अट्टाट्टहासं कुर्वद् नभसा उड्डीय जगाम । ते भयभ्रान्तास्तत्स्वरूपं नृपाग्रे प्रोचुः । ततो देवी प्रबुद्धा सती उन्मीलितलोचना जाता । राजा प्रमोदभरभासुरो जातः । देवी प्रोत्थाय प्राह - 'प्राणेश !
For Private And Personal Use Only
गद्यबद्ध -
श्री मलयसुन्दरी
कथा ॥
॥ ११ ॥