SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra iwww.kobatirth.org Acharya Shri Kailassagarsuti Gyanmandir गयबद्धश्री मलयसुन्दरीकथा ॥ ।। १० ।। */“उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः। उद्यमात् कृमिकोटोऽपि भिनत्ति महतो द्रुमान्॥१॥ ____ राज्ञा प्रोक्तम्-'भव्यमुक्तं, मन्त्रिषु राज्यभारं निवेश्य स्वया सह कमपि देवम् आराधयिष्यामि । यावत् तो इति वार्ता कुरुतस्तावद् देव्या दक्षिणनेत्रं स्फुरितम् , साऽत्याकुला अभूत् । राज्ञोक्तम् -'देवि! कि ते जातम् ।। सा प्राह-'प्राणेश! न जाने किमपि भावि ! शरीरे कुचेष्टा अरतिश्च मृत्यवे महाकष्टाय वा विचार्यते । राजा प्राह-'यद् भावि तद् भवतु, मम जीवितं मरणं वा त्वयैव सह, मा खेदं कुरु' । इत्युक्त्वा भोजनाय उत्तस्थौ । भुक्त्वा क्षणं विश्रम्य राजा सभा भूषयति स्म । 'कि भावि ?' इति देवीस्वरूपं चिन्तयति तावता काऽपि चेटी रुदती शीघ्र' समेत्य गद्दस्वरेण नृपं प्रति प्राह-'हे प्रभो ! देवी चम्पकमाला गृहे गृहवाटिकायाम् अन्यत्र च क्वापि धृतिमलभमाना आगत्य पल्यङ्के निविष्टा । तया च अहं पत्रार्थ प्रेषिता । यावद् आगत्य पश्यामि तावता देवी पल्यङ्के सुप्ता दृष्टा । परं न वक्ति, न च चेष्टां कुरुते । जाने किं जातम् ?' । राजा तच्छ्रन्या अत्याकुलः समुत्थाय स्खलन्पादः शीघ्रमावामान्तर्ययो। वैद्य-ज्योतिषिकादयो मिलिताः, बहवः प्रतीकाराः प्रारब्धाः, परं सर्वेऽपि वृथेव जाताः । काष्ठतुल्यामेव तां दृष्ट्वा सर्वे वैद्या निराशा जाताः । तत एकान्ते मिलित्वा मन्त्रिणोऽन्योन्यं प्रोचुः'किमिदम् ?, कथमस्या: प्राणा एव गताः ? । प्रियास्नेहेन भूगेऽपि मरिष्यति अपुत्रः' पृथ्वी निराधारा भविष्यति' तदा सुबुद्धिमन्त्रिणोक्तम्-'कथञ्चिद् राजा कालविलम्ब कार्यते विषविकारकथनेन' । इति विमृश्य तैस्तथैवोक्तं नृपाने । राजा हृष्टोऽवादीत्-'तदा जितं जितम् !, अरे ! मणीन् मान्त्रिकांश्च आनयत' । एवं प्रतीकारेषु क्रियमाणेषु देवीम् For Private And Personal use only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy