________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२
सालङ्कारचूडामणी काव्यानुशासने
गायति, कीदृशैः स्वरैः ? एकबाणाहत्या जातानि यानि श्रेणीभूतविशालतालानां विवरणानि-रन्ध्राणि, तैरुद्भीर्णा:-प्रकाशिताः तैरित्यर्थः। श्रीरामेण सुग्रीवप्रत्ययाय सप्त तालवृक्षा एकबाणेन विभिन्ना इति वाल्मीकीये रामायणे किष्किन्धाकाण्डे १२ सगै प्रसिद्धम् । अत्र रामपदस्य खरदूषणादिहन्तरि लक्षणेत्येकस्यैव रामपदस्य नानार्थत्वमर्थान्तरसंक्रमितवाच्यत्वं प्रकरणावधीनार्थप्रतीतिविषयत्वं चेति व्यङ्गयार्थसाम्येन लक्षणैव व्यङ्ग्यमर्थमपि बोधयिष्यतीति नातिरिक्तव्यापारस्वीकारापेक्षेति चेत् ? अनोच्यते-लक्षणीयार्थस्य नानात्वेऽपि यथानेकार्थशब्दाभिधेया नियता एव तथैव तदर्थानां, [लक्ष्यार्थानां ] नियतत्वमेव, यतश्च मुख्येनार्थेन नियतसम्बन्धस्यैव लक्षणीयत्वात् , प्रतीयमानस्त्वर्थः प्रकरणादिविशेषवशेन कचिनियतसम्बन्धः, कचन नियतसम्बद्धसम्बद्धश्च [ परम्परितसम्बन्धः] द्योत्यत इति तत्र लक्षणाया व्यापारत्वायोगः किञ्च लक्षणयाऽर्थबोधने मुख्यार्थबाधादित्रयं हेतुत्वेनोक्तम्, तन्त्र 'अत्ता एत्थ निमजती' त्याधुदाहियमाणे पद्ये विवक्षितान्यपरवाच्ये ध्वनौ, "मम धम्मिय" इत्युदाहृते पद्ये वाऽर्थशक्तिमूले व्यङ्ग्ये मुख्यार्थबाधो नास्त्येवेति कथं लक्षणा ? । किञ्च लक्षणायामपि प्रयोजनप्रतीतये व्यञ्जनमाश्रीयमाणमित्युपपादितं प्राक् किञ्च यथाऽभिधाशक्तिः संकेतमपेक्षते, तथा लक्षणाऽपि, मुख्यार्थबाध-तद्योगप्रयोजनरूपसमयविशेषमपेक्षत एव, अत एव तामभिधापुच्छभूतामाहुः। न च लक्षणात्मकमेव व्यञ्जनम् । तस्य लक्षणामूलकत्वेन, तद्भिशाभिधामूलकत्वेन च दर्शनात्; न च केवलं तदुभयानुसारिण्येव व्यञ्जना, अपि तु निरर्थकवर्णानुसारिण्यपि किञ्च लक्षणाशब्दानुसारिण्येव व्यञ्जना तु शब्दभिन्ना नेत्रत्रिभागावलोकनादिगताऽपि प्रसिद्धा । इत्थं चाभिधालक्षणातात्पर्यव्यापारत्रयातिवर्ती व्यअनाव्यापारोऽनपद्रवनीय एवेति सिद्धमेवोक्तस्थले निषेधस्य व्यङ्ग्यत्वम् । तत्र 'अत्ता एत्य निमज्जतीति' [उदाह्रियमाणे ] नियतसम्बन्धः, 'कस्स व ण होइ रसो' इत्यादावुदाहियमाणेऽनियतसम्बन्धः ।
"विवरीयरए लच्छी बंभं दट्टण णाहिकमलस्थं ।
हरिणोदाहिणणयणं रसाउला झत्ति ढक्केई ॥" ( स० श० ८१५) 'विपरीतरते लक्ष्मीब्रह्माणं दृष्ट्वा नाभिकमलस्थ हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति, इति संस्कृतम् । विपरीतरतिसमये लक्ष्मी:-कमला नाभिकमलस्थ- हरेर्नाभिकमले विद्यमानं, ब्रह्माणं दृष्ट्वा [लजमाना] रसेन-सुरतावेशेन
wwwwww
For Private And Personal Use Only