________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशाभिधविवृतौ अध्या० १, १९ ।
कुतो न स्वीक्रियते ?, तथाहि - 'रामोऽस्मि सर्व सहे' [ उदाह्रियमाण-स्निग्धश्यामलकान्तीत्यादिपद्यस्थे ] इत्यत्र रामपदस्य सर्वदुःखभाजनत्वे, एवं“प्रत्याख्यान रुचेः कृतं समुचितं क्रूरेण ते रक्षसा,
सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः ||
व्यर्थ सम्प्रति बिभ्रता धनुरिदं त्वद्व्यापदः साक्षिणा,
रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रियेणोचितम् ॥ [ प्रसन्नराघवे ]
२११
>
[केनचिद् दर्शिते लङ्कावृत्तान्तनाटके रावणेन सीताशिरश्छेदनं दृष्ट्वा राम आह-] हे प्रिये ! प्रत्याख्याने - निराकरणे रुचिर्यस्यास्तथाभूतायास्ते, क्रूरेण रक्षसारावणेन समुचितं [ शिरश्छेदनं कृतं त्वया च तत्-शिरश्छेदादि तथा सोढं यथा कुलजनः-रघुकुलमनुष्यः, उच्चैः - उन्नतं शिरो धत्ते - धारयति । त्वयि चारित्रादपेतायां लज्जया शिरो नतं स्यादिति भावः, तु-किन्तु, व्यर्थम् इदं धनुर्बिभ्रता । स्वद्व्यापदः साक्षिणा, प्रियजीवितेन रामेण तु प्रेम्ण उचितं न कृतमित्यन्वयः । इत्यत्र रामशब्दः कातरेऽर्थे संक्रमितवाच्यः । किञ्च
"
“रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा
मस्मद्भाग्यविपर्ययाद् यदि परं देवो न जानाति तम् । बन्दीवैष यशांसि गायति मरुद यस्यैकबाणाहति
"
श्रेणीभूत विशालतालविवरोद्गीर्णैः खरैः सप्तभिः ॥” [ राघवानन्दे ] रावणमुद्दिश्य विभीषणोक्तिरियम् - रामः सकलभुवनजनमनोरमणः, [ एतेन सर्वे तद्धितकारिण इति व्यज्यते ] असौ - खरदूषणादिनिहन्तृत्वेनातिप्रसिद्धो विलक्षणचैर्यगाम्भीर्यादिशाली भावनया प्रत्यक्षायमाणश्च विक्रमगुणैः- न तु भवता समं लोकविद्रावणादिभिः, भुवनेषु न ग्रामे नापि नगरे नापि कस्मिंश्चिद् भुवने, किन्तु भुवनेषु [सर्वेषु लोकेषु ] परां उत्कृष्टां प्रसिद्धिं प्राप्तः - प्रख्याति प्रकृष्टां सिद्धिं वा गतः, एतेन तस्याजेयत्वं समर्थितम् । ननु मया तु न ज्ञायत इति चेत् ? अत्राह - तं यदि परं देवोऽस्मद्भाग्यविपर्ययाद् न जानाति । यदि परमिति निपातोऽवधारणार्थः, तं देवो- दिव्यज्ञानवानपि भवान् अस्माकं सकलरक्षसां, भाग्यविपर्ययादेव न जानाति, भवतस्तु तद्धस्तेन मरणेऽपि परमपदप्राप्तिः, किन्त्वस्माकं त्वद्विरहे महद् दुःखमनुभवनीयमिति भावः । विक्रमगुणानाहएष मरुत - वायुः, बन्दीव - वैतालिक इव, सप्तभिः स्वरैर्यस्य - रामस्य यशांसि
For Private And Personal Use Only
3