SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशामिधविवृतौ भध्या० १, सू०१४। १५३ चलापानां दृष्टिं स्पृशसि बहुशो वेपथुमतीं, रहस्याख्यायीव वनसि मृदु कर्णान्तिकगतः । करौ व्याधुन्वत्याः पिबसि रतिसर्वखमधरं, स्थापि दृष्टत्वात् तथात्वे ताटस्थ्येनौदासोन्येन चोपनिबन्धे नोपकारकत्वमिति भावः, बाधकत्वं च रसान्तरानुभवसामग्रीसाधनेन प्रकृतरसक्षतिसाधकत्वम् , ताटस्थ्यं ध प्रकृतरसपरिपुपोषयिषाविरहेणालङ्कारविन्यासप्रयासविकलकविकृतिनिष्टरससामग्रीवैधुर्यम् । तत्राङ्गत्वेन निवेशो यथा-चलापाङ्गामिति । शकुन्तलामवलोक्याङ्कुरिताभिलाषो दुष्यन्तः अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् , अथवा कृतं सन्देहेन, "असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥" [अ० शा० १,१९] तथापि तस्वत एनामुपलप्स्ये” इति विचारयन् शकुन्तलाया भ्रमरकृतबाधामवलोक्य सस्पृहमिदमाह "हे मधुकर! भ्रमर! स्वं [ शकुन्तलाया अस्मदभिलषितसङ्गमायाः] चलौविलासवशात् तरलौ, अपाङ्गौ-पर्यन्तौ यस्यास्तां, वेपथुमतीं त्वत्स्पर्शसंजातसंत्रासजनितकम्पतया विधुरितस्थितिम् , तथा च मुग्धताभिव्यक्तः शोभातिशायिनी प्रवातकम्पितनीलोत्पलसदृशीमिति च व्यज्यते, दृष्टिं नयनम् बहुशः अनेकवारं, स्पृशसि; तथा रहस्य-गोपनीयं किमपि वस्त्वाख्याति तच्छीलो रहस्याख्यायी, तद्वत् कर्णान्तिके कर्णयोः समीपप्रदेशे, चरति-गच्छतीति तथाभूतः सन् , मृदु कोमलम् , अतश्च प्रियमपि, स्वनसि ध्वनि करोषि; किमपि तां श्रावयितुमिव कर्णाभ्यासमास्से; करौ हस्तद्वर्य, न तु करम् , व्याधुन्वत्याः कम्पयन्त्याः, एतेन सम्भ्रमाधिक्येन तदधरपानस्यासुकरत्वमुक्तम् , रतिसर्वखं रतिनिधानभूतम् , अधरं न स्वोष्ठम् , पिबसि आस्वादयसि, न तु यथाकथञ्चित् स्पृश-- सीति भावः, तेन च तदधरपानावधिसुखसमुदय इति तस्यातिपुण्यजन्यवं व्यायम् , एवं च वयं तत्त्वान्वेषात् यथार्थतः, इयमस्मदुपभोग्या न वा, सत्यां च तथाभूतायां सङ्गमोपायः कः, स्वतघ्रा परतन्त्रा वेयमिति तत्त्वस्यान्वेषणपारवश्यात् , हता भसंप्रातसमागमाः प्रति हताशाः, त्वं यदस्याः सकलं वल्लभवृत्ता For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy