________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
सालकारचूडामणौ काग्यानुशासने wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmarnamainaram
अलङ्कारा इति वर्तते । तत्परत्वं-रसोपकारकत्वेनालङ्कारस्य निवेशो, न बाधकत्वेन नापि ताटस्थ्येन, यथातत्परास्तेषां भावस्तत्परत्वं, तस्मिन् सतीत्येकः प्रकारः; काले ग्रह-स्यागयोरिति-ग्रहणं-ग्रहः, त्यजन-त्यागः, ग्रहश्व त्यागश्च ग्रह-त्यागौ तयोः, कालेयत्रावसरे यस्य ग्रहणमुचितं तत्र ग्रहे, यत्र च यस्य त्याग उचितस्तत्र तत्यागे च सतीति प्रकारद्वयमिति प्रथमेन मिलितास्त्रयः, [अलङ्काराणामिति चोभयत्र सम्बन्धनीयम् ]; नातिनिर्वाहे रसनिर्वहणेकतानहृदयस्य कवेरलकाराणां निर्वाहार्थमनतिप्रयत्नकरणे, इत्येकः प्रकारः, पूर्वस्विभिः सह चतुर्थः; निर्वाहेऽप्यङ्गत्वे कृतेऽप्यलङ्कारनिबन्धने रसापेक्षया तस्याप्राधान्ये, इत्ययमेकः प्रकार इति पूर्वेश्चतुर्भिः सहाऽयं पञ्चम इति पञ्चप्रकारास्तस्य-[अलकाराणां रसोपकारकत्वस्य ] इति सूत्रार्थः । तदित्थं विशकलिताः पञ्च प्रकाराः
१ रसस्य प्राधान्ये तदुपकारकतयैवालङ्कारस्योपनिबन्धः । २ अङ्गत्वेन विवक्षितस्यापि अलङ्कारस्य सत्येवावसरे ग्रहणं नानवसरे । ३ गृहीतस्याऽप्यलङ्कारस्य तद्रसानुगुणतयाऽलकारान्तरापेक्षया काले त्यागः । ४ रसनिर्वहणकतानत्वे तनिर्वाहेऽनतिप्रयत्नः ।
५ अलङ्कारोऽयमुपनिबध्यमानो रसापेक्षया प्राधान्यं मा गमदिति सतर्कस्य कवेः प्रयासेन तस्याङ्गभाव इति । उक्तं चैतदानन्दवर्धनाचार्येणापि ध्वन्यालोके
"विवक्षा तत्परत्वेन नाङ्गित्वेन कथञ्चन । काले च ग्रहण-त्यागौ नातिनिर्वहणैषिता ॥ नियूंढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणम् । रूपकादेरलङ्कारवर्गस्याङ्गत्वसाधनम् ।।
इति [ध्वन्या० उ० २, का. ४२] सूत्रार्थ सोदाहरणं ब्याख्यातुमुपक्रमं कुर्वन् सूत्रेऽदृष्टस्यावश्यकस्य पदस्थ सूत्रान्तरादनुवृत्तिमाह-अलङ्कारा इति वर्तत इति-पूर्वसूत्रात् "अगाश्रिता अलकाराः" इत्यतः 'अलकाराः' इति पदमनुवर्तत इत्यर्थः । 'तत्परत्वे' इत्यस्यार्थमाह-रसोपकारकत्वेनालङ्कारस्य निवेश इति । नन्वलङ्कारश्चेदुपनिबद्धस्तर्हि रसोपकारकः स्यादेव, तस्यैवालङ्कार्यत्वादिति चेदत माह-न बाधकत्वेनेत्यादिअलङ्कारोपनिबन्धः सर्वत्र रसोपकारक एव न भवति, कचित् तस्य बाधकत्व
For Private And Personal Use Only