SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra छ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धि वाञ्छता यथोचितोपक्रमः कार्यः । उक्तं च उपक्रमादेव हि कार्यसिद्धिरुपक्रमादेव कुटुम्बवृद्धिः । उपक्रमादेव हि कष्टभङ्ग उपक्रमादेव हितार्थसङ्गः ॥ १ ॥ ततो महाराज ! नैमित्तकान् पृच्छ, तीर्थानि गच्छ, दानानि यच्छ, तपांसि तप्यस्व, मन्त्रान् जञ्जयस्व, कुलदेवतामाराधय, विद्याः साधय, यथा विलीयन्तेऽन्तरायाः, क्षीयन्ते दुष्टकृता माया, उज्झम्भन्ते कल्याणकथाः, सिध्यन्ति सर्वे मनोरथाः । इति श्रुत्वा जगाद राजा "देवि ! युक्तमुक्तम्, तथोपक्रमो करिष्यते सर्वमनोरथसिद्धिर्भविष्यति” इत्येवं वदति भूपालेऽना हतगम्भीरदुन्दुभिध्वनिरारामदेशोपरि बभूव । तं च श्रुत्वातीव हृष्टमना महीपतिः नूनमस्मादाकस्मिकशकुनादस्मन्मनोरथसिद्धिर्भविष्यति । इति चिन्तयन् यावदूर्ध्वमालोकयति, तावत्पश्यत्युदञ्चन्मरीचिवीचिभिर्गगनतलमापूरयन्ति चलत्पताकाभिः प्रनृत्यन्ति बाह्यारामं प्रत्यवतरन्ति देवविमानानि । “किमेतद्” इति विचारयन्नरेशः शीघ्रमेव सभामागत्य यावन्निविष्टस्तावदारामपालकः प्रणम्य विज्ञप्तवान् - " हे देव ! केवलज्ञानी कोऽपि मुनीश्वरः संप्रति तव पुरारामभूमौ समवसृत्य देवतानिर्मितकनककमलमलञ्चकार । विमानाधिरूढः सुरसमूहोऽवततार ” । राजापि तस्य पारितोषिकदानं दत्त्वाऽहो दिष्टया केवलिनं नत्वा " निष्पापाः निःसंदेहाः सिद्धसाध्याश्च भवामः " इति सानन्दं वदन् सान्तःपुरपरीवारो महत्या ऋद्ध्या वनमध्ये गत्वा, विधिना केवलिनं नुत्वा नत्वा च यथोचिक्षितिपीठे निविष्टवान् । ततः केवली सुधामुचा वाचा धर्मदेशनां प्रारेभे For Private and Personal Use Only
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy