SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २४] संस्काराख्यानम् हृद्यस्त्रं हृदयं चास्ने यथा भवति नारद ॥ २६ ॥ कृत्वैवं कलशे न्यासं तं यजेद्विधिना ततः । तत्रास्त्रकलशं कुर्यादासनं तत्र कल्पयेत् ॥ २७ ॥ फवारेण तु चक्राख्यं केवलं रक्तरूपधृक् । नाभिनेमिविहीनं तु तदूर्वं कलशं न्यसेत् ॥ २८ ॥ पुष्पायधूपैर्लिप्त्वा च अस्त्रमन्त्रं तदन्तरे । विसर्गफट्पदाद्यं तु वैपरीत्येन चोचरेत् ॥ २९ ॥ बलिदानावसानं तत्पूजयित्वा ततो द्विज । [अथ मण्डले (स्थंडिले) पूजनविधानम् ] तदने भद्रपीठं तु योजयेत्तदभावतः ॥ ३०॥ भूमावुपरि विन्यस्य आधारं प्रणवेन तु । ऐश्वर्याधं तदृर्श्वे तु धर्मान्तं चाथ विन्यसेत् ॥ ३१ ॥ हृन्मन्त्रेण तदूधै तु शेषं सपणवेन तु । कल्पयेन्मुनिशार्दूल रत्नपुञ्जनिभं महत ॥ ३२ ॥ हृदयाचैव तत्पृष्ठे मन्त्रमावाह्य विन्यसेत् । केवलं लयदेहं तु पूर्वोच्चारक्रमेण तु ॥ ३३ ॥ [कुण्डे हवनविधानम् ] पूजयित्वा यथान्यायं तदग्रेऽथ प्रकल्पयेत् । प्रमाणरहितं कुण्डमेकं मेखलयाऽन्वितम् ॥ ३४ ॥ तत्संस्कृत्य पुरा तत्र गगनादवतार्य च । सूर्यकान्तेन मणिना वैष्णवं जातवेदसम् ।। ३५ ॥ लौकिकं तदभावाच्च आनाय्य तु तथा स्मरेत् । तत्र दर्भास्तरं दद्यात्रिधा दिश्वन्तरा ग्रहम् (?) ॥ ३६ ॥ संस्कृत्य पावकं प्राग्वन्नमोऽन्तं जुहुयात्ततः । होमः] मूलमन्त्रं शतं साष्टं तिलैराज्येन वै तथा ॥ ३७॥ संहारक्रमयोगेन स्मृत्वा मन्त्रं ततोऽन्तगम् । दद्यात्पूर्णाहुतिं विप्र ततश्चार्ष्याम्बुना तु वै ॥ ३८ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy