SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [अथ शवस्य प्रोक्षणादि] तं शवं प्रोक्षणीयं च ताडयित्वाऽवलोक्य च । चक्षुषा ज्ञानपूर्णेन करुणानुगतेन च ॥ ३९ ॥ दत्वाऽयंपुष्पे शिरसि दूरस्थश्चास्पृशंश्च तम् । आनाय्य पृष्ठदेशं तु कलशाभ्यां द्विजोत्तम ॥ ४० ॥ आसने त्वपकृष्टे तु कार्य सन्धाय केनचित् । तं वीक्षमाणः कुण्डस्थो गुरुस्तूपविशेषतः ॥४१॥ पाकर्मपरिशुद्धं तु मृतं संस्कारवर्जितम् । [आह्वानपूर्वकं जीवस्य शवशरीरे योजनविधानम् ] जीवं च केवलीभूतं सामीप्यपदवीगतम् ॥ ४२ ॥ मन्त्रेणाहूय देहस्थं कृत्वा तदनु योजयेत् । पूर्ववच्छवपिण्डे तु रत्नदीपोज्ज्वलमभम् ॥ ४३॥ [जीवाह्वानमन्त्रः] प्रणवान्तं (न्ते ?) शिखाबीनं संज्ञां तदनु योजयेत् । तदन्ते तु शिखाबीजं प्रभा(ण ? )वान्तं न्यसेत्पुनः ॥ ४४ ॥ आगच्छ....नेतस्य प्रविभ्या(शा?)थ नियोजयेत् । एवं स्वस्थानगं कृत्वा जीवं शुक्रगतं त्विह ॥ ४५ ॥ [स्वस्थानं गमितस्य जीवस्य परतत्त्वे संयोजनविधानम् ] व्यापारशक्तिसंयुक्तं काष्ठस्थमिव पावकम् । दीक्षाख्येन क्रमेणास्य लयहोमस्तु केवलः ॥ ४६ ॥ कर्तव्यो गुरुणा सम्यक् प्रथिव्यादिक्रमेण तु । परे तत्वे तु संयोज्य पूर्णाहुत्या तु पूर्ववत् ॥ ४७ ॥ [अथ चिताकल्पनविधानम् ] दक्षिणेनात्मनश्चाथ मोक्ष्य मामस्त्रवारिणा । तिलैः सिद्धार्थकैर्धान्यैर्मिश्रीभूतैस्तु नारद ॥४८॥ नाभिनेमिविहीनं च कालचक्रं समापयेत् । वामावर्तद्विषट्कारं त्रिकोणं तदहिः पुरः ॥ ४९ ॥ तदेहवर्णज्वालाढयं स्वस्तिकत्रितयान्वितम् । तदहिश्चतुरश्रं च पञ्चरङ्गोज्ज्वलं पुरम् ॥ ५० ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy