SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६८ जयाख्यसंहिता [प. २४ अश्वत्थतरुसंभूता अष्टौ तीक्ष्णा हि शङ्कवः ॥ १४ ॥ अयनलब्धा विभेन्द्र अन्यस्माधतिनः स्वयम् । छिन्द्यादश्वत्थवृक्षं तु पालाशाद्यमभावतः ॥१५॥ पीतं वा मुसितं सूत्रं क्षौमं कार्पास तु वा । समस्तधान्यानि तिलाः कृष्णास्सिद्धार्थकैर्युताः ॥१६॥ प्रभूतमिन्धनं शुष्कं पालाशाधं च पावनम् । तत्र चैशानदिग्भागमासाद्योपविशेद्गुरुः ।। १७॥ [ गुरुणाऽऽप्ययक्रमेण स्वाङ्गन्यासस्य कर्तव्यता ] समलङ्कृत्य चात्मानमापादाच शिरोन्तिमम् । मन्त्रेणाप्यययुक्त्या वै षडङ्गविधिना पुरा ॥ १८ ॥ [ मृतेन योऽनुष्ठितो मन्त्रस्तेन प्रथमं पूजनस्य कर्तव्यता ] तदनुष्ठानसंज्ञेन प्रारम्भे पूजयेद्द्विज । परिशिष्टस्य वाऽन्यस्य आचार्यस्यापि कस्यचित् ॥ १९ ॥ शासनस्थस्य भक्तस्य मन्त्रे चाविदिते सति । [तदपरिज्ञाने नारसिहामन्त्रेण पूजनविधिः ] प्रणवाद्यन्तरुद्धेन सामान्येन महात्मना ॥ २० ॥ नारसिह्मण चोग्रेण तस्योङ्कारः पुरा भवेत् ।। नमो भगवते कृत्वा नारसिहाय वै ततः ॥ २१ ॥ द्वादशाक्षरमन्त्रोऽयं सर्वैः सर्वत्र शस्यते । तन्नामपूर्ववर्ण तु दीर्घः पद्भिविभेदितम् ॥२२॥ तेषामाधावसाने तु प्रणवञ्चापि योजयेत् । प्रकल्प्य चाङ्गपटूं तु सामान्यस्य च संज्ञया ॥ २३ ॥ [कुम्भस्थापनतत्पूजन विधिः ] अन्तःस्थं पूजयित्वाऽऽदौ बहिस्तदनु पूजयेत् । प्रणवेन पुरा पीठं साधारं परिकल्पयेत् ॥ २४ ॥ तत्रार्चिते न्यसेत्पृष्ठे कलशं वारिपूरितम् । समायं (सामयं ?) विन्यसेन्मन्त्रं विलोमोच्चारयोगतः॥२५॥ अस्त्राधमङ्गषट्कं तद्वैपरीत्येन विन्यसेत् । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy